मृ॒गा इ᳚व ह॒स्तिनः᳚ खादथा॒ वना॒ यदारु᳚णीषु॒ तवि᳚षी॒रयु᳚ग्ध्वम् ॥
पदपाठः (Word-by-word)
मृ॒गाः॑इ᳚व । ह॒स्तिनः᳚ । खा॒द॒थ॒ । वना᳚ । यत् । आरु᳚णीषु । तवि᳚षीः । अयु᳚ग्ध्वम् ॥
सायणभाष्यम् (Sayana Commentary)
महिष इति महन्नाम । महिषासो महांतः । मायेति ज्ञाननाम । मायिनः प्राज्ञाश्चित्रभानवः शोभनदीप्तयो गिरयो न स्वतवसः पर्वता इव स्वकीयेन बलेन युक्ता रघुष्यदः शीघ्रगमना हे मरुत एवंभूतगुणविशिष्टा यूयं हस्तिनो हस्तवंतो मृगा इव गजा इव वना वनानि वृक्षजातानि खादथ । भक्षयथ । प्रभंक्थेति यावत् । यद्यस्मादारुणीष्वरुणवर्णासु वडवासु तविषीर्बलान्ययुग्ध्वं संयोजितवंतः । तस्माद्भवतामिव वाहनस्यापि प्रबलत्वात्संयुक्ता भवंतः सर्वं भंजंतीत्यर्थः ॥ रघुष्यदः । स्यंदू प्रस्रवणे । रघु शीघ्रं स्यंदंते गच्छंतीति रघुष्यदः । क्विप्चेति क्विप् । अनिदितामिति नलोपः । वालमूललघ्वलमिति लत्वविकल्पः । मं ८-२-१८ । कृदुत्तरपदप्रकृतिस्वरत्व । खादथ । खादृ भक्षणे । अयुग्ध्वम् । युजिर् योगे । लुङि च्लेः सिच् । एकाच इतीट् प्रतिषेधः । धि च (पा ८-२-२५) इति सकारलोपः । चोः कुरिति कुत्वम् । अडागम उदात्तः यद्वृत्तयोगादनिघातः ॥ ७ ॥