श्रवणम्

1.64.5
ई॒शा॒न॒कृतो॒ धुन᳚यो रि॒शाद᳚सो॒ वाता᳚न्वि॒द्युत॒स्तवि᳚षीभिरक्रत ।
दु॒हन्त्यूध᳚र्दि॒व्यानि॒ धूत᳚यो॒ भूमिं᳚ पिन्वन्ति॒ पय᳚सा॒ परि᳚ज्रयः ॥
▶ पदपाठः (Word-by-word)
ई॒शा॒न॒॑कृतः᳚ । धुन᳚यः । रि॒शाद᳚सः । वाता᳚न् । वि॒॑द्युतः᳚ । तवि᳚षीभिः । अ॒क्र॒त॒ ।
दु॒हन्ति᳚ । ऊधः᳚ । दि॒व्यानि᳚ । धूत᳚यः । भूमि᳚म् । पि॒न्व॒न्ति॒ । पय᳚सा । परि᳚॑ज्रयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ईशानकृतः स्तोतारमीशानं धनाधिपतिं कुर्वाणा धुनयो मेघादीनां कंपयितारो रिशादसो रिशानां हिंसकानामत्तारः । यद्वा रिशतां हिंसतामसितारो निरसितारः । एवंभूता मरुतस्तविषिभिराश्मीयैर्बलैर्वातान् पुरो वातादीन् विद्युतो विद्योतमानास्तडितश्चाक्रत । कुर्वंति । कृत्वा च परिज्रयः परितो गंतारो धूतयः । कंपयितारो मरुतो दिव्यानि दिविभवान्यूधरूधस्थानीयान्यभ्राणि दुहंति । रिक्तीकुर्वंति । जलरहितानि कुर्वंतीत्यर्थः । तदनंतरं भूमिं पयसा मेघान्निर्गतेनोदकेन जलेन पिन्वंति । सिंचंति ॥ रिशादसः । रिश हिंसायाम् । इगुपधलक्षणः कः । रिशंति हिंसंतीति रिशाः शत्रवः । तानदंतीति रिशादसः । असुन् । नित्त्वादाद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा । रिशच्छब्धाच्छत्रंतादसु क्षेपण इत्यस्मात् क्विप् । व्यत्ययेन पूर्वपदस्योपधादीर्घः । अंतोदात्तत्वं च । अक्रत । करोतेश्छांदसो वर्तमाने लुङ् । मंत्रे घसेति च्लेर्लुक् । ऊधः । सुपां सुलुगिति विभक्तेर्लुक् ॥ ५ ॥