श्रवणम्

1.64.9
रोद᳚सी॒ आ व᳚दता गणश्रियो॒ नृषा᳚चः शूरा॒ः शव॒साहि᳚मन्यवः ।
आ व॒न्धुरे᳚ष्व॒मति॒र्न द᳚र्श॒ता वि॒द्युन्न त᳚स्थौ मरुतो॒ रथे᳚षु वः ॥
▶ पदपाठः (Word-by-word)
रोद᳚सी॒ इति᳚ । आ । व॒द॒त॒ । ग॒ण॒॑श्रि॒यः॒ । नृ॑सा᳚चः । शू॒राः॒ । शव᳚सा । अहि᳚॑मन्यवः ।
आ । व॒न्धुरे᳚षु । अ॒मतिः᳚ । न । द॒र्श॒ता । वि॒॑द्युत् । न । त॒स्थौ॒ । म॒रु॒तः॒ । रथे᳚षु । वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गणश्रियो गणशः श्रयमाणाः सप्तगणरूपेणावस्थिता नृषाचो नृन् यजमानान्हविःस्वीकरणाय सेवमानाः शूराः शौर्येपेता एवंभूता हे मरुतः शवसा बलेनाहिमन्यव आहननस्वभावकोपयुक्ताः संतो रोदसी द्यावापृथिव्यावा वदत । आ समंताच्छब्दयत । युष्मदागमने सति भवदीयशब्देन द्यावापृथिव्यौ पूर्णे कुरुतेति भावः । किंच हे मरुतो वो युष्माकं तेजो वंधुरेषु । बंधककाष्ठानिर्मितं सारथेः स्थानं वंधुरमित्युच्यते । तद्युक्तेषु रथेष्वा तस्थौ । आतिष्ठति । अवस्थितं सत्सर्वैर्दृश्यते । तत्र दृष्टांतद्वयमुच्यते । अमतिर्न । अमतिरिति रूपनाम । यथा निर्मलं रूपं सर्वैर्दृश्यते । दर्शता विद्युन्न । यथा वा दर्शनीया विद्युन्मेघस्था सर्वैदृर्श्यते । एवं रथे स्थितानां युष्माकं ज्योतिरपि सर्वैर्दृश्यत इत्यर्थः ॥ वदत । ऋचि तुनुघेत्यादिना दीर्घः । नृषाचः । पादादित्वादामंत्रिताद्युदात्तत्वम् । अमतिः । अम गत्यादिषु । अमेरतिः (उ ४-५९) इत्यौणादिकोऽतिप्रत्ययः । प्रत्ययाद्युदात्तत्वम् । दर्शता । भृमृदृशीत्यादिनातच् प्रत्ययः । चित्त्वादंतोदात्तत्वं ॥ ९ ॥