यदी॒ वाज᳚स्य॒ गोम᳚तः स्तो॒तृभ्यो॒ मंह᳚ते म॒घम् ॥
पदपाठः (Word-by-word)
यदि᳚ । वाज᳚स्य । गो॑म᳚तः । स्तो॒तृ॑भ्यः᳚ । मंह᳚ते । म॒घम् ॥
सायणभाष्यम् (Sayana Commentary)
इंद्रस्य संबंधिन्यो रातयो धनदानानि पूर्वीरनादिकालसिद्धाः प्रभूता वा । अस्येंद्रस्य सर्वदा यष्वृभ्यो धनदानमेव स्वभाव इत्यर्थः । एवं सतीदानींतनोऽपि यजमानः स्तोतृभ्य ऋत्विग्भ्यो गोमतो गोसहितस्य वाजस्यान्नस्य पर्याप्तं मघं धनं यदि मंहते दक्षिणारूपेण दधाति तदानीमूतये बहुधन दानपूर्वकाणींद्रस्यास्मद्विषयाणि रक्षणानि न वि दस्यंति । विशेषेण नोपक्षीयंते । मघं रेक्ण इत्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु मघशब्दः पठितः । दाति दाशतीत्यादिषु दशसु दानकर्मसु मंहत इति पठितं ॥ पूर्वीः । पुरुशब्दस्य वोतो गुणवाचनादिति ङीष् । अद्यस्योकारस्य दीर्घश्चांदसः । जसि दीर्घाज्जसि चेति निषेधं बाधित्वा वा छंदसि (पा ६-१-१०६) इति पूर्वसवर्णदीर्घत्वम् । ङीषः प्रत्ययस्वरेणोदात्तत्वम् । रातयः । मंत्रे वृषेषपचमनविदभूवीरा उदात्तः (पा ३-३-९६) इति क्तिन उदात्तत्वम् । दस्यंति । दसु उपक्षये । दिवादिभ्यः । श्यन् । निघातः । ऊतयः । ऊतियूतीत्यादिना क्तिन्नुदात्तः । यदि । निपातत्वादाद्युदात्तः । संहितायां निपातस्य चेति दीर्घत्वम् । स्तोतृभ्यः । ष्टञ् स्तुतौ । धात्वादेः षः सः । तृचश्चित्त्वा दंतोदात्तत्वम् । मंहते शपः पित्त्वादुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण तिङ्ङतिङ इति निघातो न भवति निपातैर्यद्यदिहंतेति निषेधात् ॥ ३ ॥