श्रवणम्

1.38.3
क्व᳚ वः सु॒म्ना नव्यां᳚सि॒ मरु᳚त॒ः क्व᳚ सुवि॒ता ।
क्वो॒३॒᳚ विश्वा᳚नि॒ सौभ᳚गा ॥
▶ पदपाठः (Word-by-word)
क्व᳚ । वः॒ । सु॒म्ना । नव्यां᳚सि । मरु᳚तः । क्व᳚ । सु॒वि॒ता ।
क्वो॒३॒᳚ इति᳚ । विश्वा᳚नि । सौभ᳚गा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो वो युष्माकं संबंधीनि नव्यांसि नवतराणि सुम्ना प्रजापशुरूपाणि धनानि । प्रजा वै पशवः सुम्नम् । तै । सं ५-४-६-६ । इति श्रुत्यंतरात् । क्व कुत्र वर्तंते । तथा सुविता शोभनानि प्राप्याणि मणिमुक्तादीनि भवदीयानि क्व कुत्र वर्तंते । विश्वानि सर्वाणि सौभगा सौभाग्यरूपाणि गजाश्वादीनि क्वो कुत्र वा वर्तंते । भवदीयैः सुम्नादिभिः सर्वैः सहागंतव्यमित्यर्थः ॥ सुम्ना । शेश्छंदसि बहुलमिति शेर्लोपः । नव्यांसि । नवशब्दादीयसुनीकारलोपश्छांदसः । सुविता । सुष्ठु इतानि सुवितानि । तन्वादीनां छंदसि बहुलमुपसंख्यानम् । पा ६-४-७७-१ । इत्युवङादेशः । सौभगा । सुभगान्मंत्र इति तस्य भाव इत्यर्थेऽञ् । पूर्ववच्छेर्लोपः ॥ ३ ॥