श्रवणम्

1.33.9
परि॒ यदि᳚न्द्र॒ रोद᳚सी उ॒भे अबु᳚भोजीर्महि॒ना वि॒श्वतः᳚ सीम् ।
अम᳚न्यमाना{4} अ॒भि मन्य᳚मानै॒र्निर्ब्र॒ह्मभि᳚रधमो॒ दस्यु᳚मिन्द्र ॥
▶ पदपाठः (Word-by-word)
परि᳚ । यत् । इ॒न्द्र॒ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ । अबु᳚भोजीः । म॒हि॒ना । वि॒श्वतः᳚ । सी॒म् ।
अम᳚न्यमानान् । अ॒भि । मन्य᳚मानैः । निः । ब्र॒ह्म॑भिः᳚ । अ॒ध॒मः॒ । दस्यु᳚म् । इ॒न्द्र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र यद्यदा रोदसी उभे द्युलोकभूलोकावुभौ महिना त्वदीयेन महिम्ना विश्वतः सीं सर्वतः परिगृह्य पर्यबुभोजीः परितो भुक्तवानसि । तदानीं त्वममन्यमानान् मंत्रार्थमनुध्यातुमशक्तानपि केवलपाठकान्यजमानानभि मन्यमानैरस्मदीया एते यजमाना रक्षणीया इत्यभिमानं कुर्वद्भिर्ब्रह्मभिर्मंत्रैर्दस्युं चोरं वृत्रादिरूपमसुरं निरधमः । निःसारितवानसि । धमतिर्गतिकर्मा (नि ६-२) इति यास्कः । अबुभोजीः । भुज पालनाभ्यवहारयोः । लङि सिपि बहुलं छंदसि (पा २-४-७६) इति विकरणस्य श्लुः । बहुलं छंदसि (पा ७-३-९७) इतीडागमः । आडुदात्तः । यद्वृत्तयोगादनिघातः । महिना । महिम्ना । महच्छब्दात्पृथ्वादिलक्षणो भावे इमनिच् । टीरिति टलोपः । तृतीयै कवचनेऽल्लोपे सत्युदात्तनिवृत्तिस्वरेणोदात्तत्वम् । मलोपश्छांदसः । आमन्यमानान् । मन्यंते जानंतीति मन्यमानाः । मन ज्ञाने । दिवादिभ्यः श्यन् । श्यनो नित्त्वादाद्युदात्तत्वम् । समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । संहितायां रुत्वानुनासिकावुक्तौ ॥ ९ ॥