त्वमा᳚विथ सु॒श्रव᳚सं॒ तवो॒तिभि॒स्तव॒ त्राम᳚भिरिन्द्र॒ तूर्व᳚याणम् ।
त्वम᳚स्मै॒ कुत्स᳚मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने᳚ अरन्धनायः ॥
त्वम᳚स्मै॒ कुत्स᳚मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने᳚ अरन्धनायः ॥
पदपाठः (Word-by-word)
त्वम् । आ॒वि॒थ॒ । सु॒॑श्रव᳚सम् । तव᳚ । ऊ॒ति॑भिः᳚ । तव᳚ । त्राम᳚॑भिः । इ॒न्द्र॒ । तुर्व᳚याणम् ।
त्वम् । अ॒स्मै॒ । कुत्स᳚म् । अ॒ति॒थि॒॑ग्वम् । आ॒युम् । म॒हे । राज्ञे᳚ । यूने᳚ । अ॒र॒न्ध॒ना॒यः॒ ॥
त्वम् । अ॒स्मै॒ । कुत्स᳚म् । अ॒ति॒थि॒॑ग्वम् । आ॒युम् । म॒हे । राज्ञे᳚ । यूने᳚ । अ॒र॒न्ध॒ना॒यः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र त्वं तवोतिभिस्त्वदीयैः पालनैः सुश्रवसं पूर्वोक्तं राजानमाविथ ररक्षिथ । तथा तूर्वयाणमेतन्नामानं राजानं तव त्रामभिस्त्वदीयैस्त्रायकैः । पालकैर्बलैराविथेति शेषः । किंच त्वं महे महते यूने तरुणायास्मै सुश्रवसे राज्ञे कुत्सादींस्त्रीन्राज्ञोरंधनायः । वशमनयः । रध्यतिर्वशगमने (नि ६-२२) इति यास्कः ॥ त्रामभिः । त्रैङ् पालने । आदेच इत्यात्वम् । आतो मनि न्निति मनिन् । नित्व्वादाद्युदात्तत्वम् । अरंधनायः । रंधनं वशीकरणं करोति रंधनयति । तत्करोति । सू ३-१-२६-५ । इति णिच् । इष्ठवण्णौ प्रातिपदिकस्य । सू ६-४-१५५-१ । इतीष्ठवद्भावाट्वलोपः । लङि सिपि दीर्घश्छांदसः ॥ १० ॥