श्रवणम्

1.42.4
त्वं तस्य᳚ द्वया॒विनो॒॑घशं᳚सस्य॒ कस्य᳚ चित् ।
प॒दाभि ति᳚ष्ठ॒ तपु᳚षिम् ॥
▶ पदपाठः (Word-by-word)
त्वम् । तस्य᳚ । द्व॒या॒विनः᳚ । अ॒घ॑शं᳚सस्य । कस्य᳚ । चि॒त् ।
प॒दा । अ॒भि । ति॒ष्ठ॒ । तपु᳚षिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूषन् त्वं तस्य चोरस्य तपुषिं परसंतापकं देहं पदाभि तिष्ठ । भवदीयेन पादेनाक्रम्य तिष्ठ । कीदृशस्य । द्वयाविनः प्रत्यक्षापहारः परोक्षापहारश्चेति यद्द्वयं तद्युक्तस्य अघशंसस्य अस्मास्वघमनिष्टं शंसतः । अघशंस इति तस्करनाम । मल्लिम्लुचोऽघशंसो वृक इति तन्नामसु पाठात् । कस्य चिदनिर्दिष्टविशेषस्य कस्यापि ॥ द्वयाविनः । द्वयमस्यास्तीति द्वयावी । बहुलं छंदसीति मत्वर्थीयो विनिः । अन्येषामपि द्यश्यत इति दीर्घत्वम् । अघशंसस्य । अघे पापे शंसो मनस्यभिलाषो यस्य सोऽयमघशंसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तपुषिम् । तापयत्यनेनान्यमिति तपुषिः । औणादिक उषिन्प्रत्ययः । बहुलवचनादिकारस्य नेत्संज्ञा । नित्वादाद्युदात्तत्वं ॥ ४ ॥