श्रवणम्

1.42.5
आ तत्ते᳚ दस्र मन्तुम॒ः पूष॒न्नवो᳚ वृणीमहे ।
येन᳚ पि॒तॄनचो᳚दयः ॥
▶ पदपाठः (Word-by-word)
आ । तत् । ते॒ । द॒स्र॒ । म॒न्तु॒॑मः॒ । पू॒ष॒न् । अवः᳚ । वृ॒णी॒म॒हे॒ ।
येन᳚ । पि॒तॄन् । अचो᳚दयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मंतुमो ज्ञानवन् दस्र दर्शनीय यद्वा वैर्युपक्षयकारिन् पूषन् ते त्वदीयं तदवस्तादृशं रक्षणमा वृणीमहे । सर्वतः प्रार्थयामहे । येन रक्षणेन पितृन् अंगिरःप्रभृतीन्पितृदेवानचोदयः प्रेरितवानसि । तद्रक्षणमिति पूर्वत्रान्वयः ॥ दस्र । दसि दंसनदर्शनयोः । स्छायितंचीत्यादिना रक् , आगमानुशासनस्यानित्यत्वान्नुमभावः । यद्वा । दसु उपक्षय इत्यस्मादंतर्भावितण्यर्थात्पूर्ववद्रक् । मंतुमः । मन ज्ञाने । कमिमनिजनीत्यादिना (उ १-७३) भावे तुप्रत्ययः । मंतुर्ज्ञानमस्यास्तीति मंतुमान् । संबुद्धौ मतुवसो रुरिति रुत्वम् । अचोदयः । चुद संचोदने । चौरादिकः ॥ २४ ॥ ५ ॥