श्रवणम्

1.139.4
अचे᳚ति दस्रा॒ व्यु१॒᳚ नाक᳚मृण्वथो यु॒ञ्जते᳚ वां रथ॒युजो॒ दिवि᳚ष्टिष्वध्व॒स्मानो॒ दिवि᳚ष्टिषु ।
अधि᳚ वां॒ स्थाम᳚ व॒न्धुरे॒ रथे᳚ दस्रा हिर॒ण्यये᳚ ।
प॒थेव॒ यन्ता᳚वनु॒शास᳚ता॒ रजो॑ञ्ज᳚सा॒ शास᳚ता॒ रजः᳚ ॥
▶ पदपाठः (Word-by-word)
अचे᳚ति । द॒स्रा॒ । वि । ऊं॒ इति᳚ । नाक᳚म् । ऋ॒ण्व॒थः॒ । यु॒ञ्जते᳚ । वा॒म् । र॒थ॒॑युजः᳚ । दिवि᳚ष्टिषु । अ॒ध्व॒स्मानः᳚ । दिवि᳚ष्टिषु ।
अधि᳚ । वा॒म् । स्थाम᳚ । व॒न्धुरे᳚ । रथे᳚ । द॒स्रा॒ । हि॒र॒ण्यये᳚ ।
प॒था॑इ᳚व । यन्तौ᳚ । अ॒नु॒॑शास᳚ता । रजः᳚ । अञ्ज᳚सा । शास᳚ता । रजः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदस्रादस्रौअश्विनौ अचेति वक्ष्यमाणंयुष्मच्चेष्टितंज्ञायतेसर्वैः किंतदितितदुच्यते—नाकं स्वर्गं व्यृ- ण्वथोविशेषेणगच्छ्थः ऋणुगतौ तानादिकः लेट्यडागमः यज्ञसंपूर्त्यनन्तरमितियावत् उशब्दोवधार- णे यद्वा नाकं अकंदुःखंतद्रहितंयज्ञमृण्वथः विशेषेणगच्छथएव तदर्थंवां रथयुजः युष्मत्संबन्धिनोरथ- स्ययोजयितारः सारथयः दिविष्टिषु स्वर्गस्यएषणेषु द्योतनात्मक्स्य यज्ञस्यैषणेषु गमनेषुवा निमि- त्तभूतेषुयुंजते अश्वान्योजयन्ति रथे युक्तेरथेवायुष्मान्तएवविशेष्यन्ते दिविष्टिषु दिवोगमनेषुनिरालं- बआकाशगमनेषु अध्वस्मानः रथस्य तदाश्रितस्यचध्वंसमकुर्वाणाः किंच हेदस्राअश्विनौ वांयुवयोः बंधुरे बंधुरत्रययुक्ते युगबन्धनाधारःकाष्ठविशेषोबन्धुरंतादृशत्रययुक्तत्वं रथोयोवांत्रिवंधुरइत्यादिषु प्रसिद्धम् । हिरण्ययेहिरण्मयेरथे अधि तादृशस्यरथस्योपरि स्थामअस्थापयाम छान्दसेलङि बहुलं- छन्दसीत्यडभावः आद्युदात्तश्छान्दसः कीदृशौ पथेवसुपथेनेवमार्गेण निरालंबआकाशे रजः रंजना- त्मकं स्वर्गंप्रतियंतौगच्छन्तौ लोकारजांस्युच्यन्तइत्युक्तत्वात् । अनुशासता अननुकूलान् शत्रून् अनुशासतौ विधेयीकुर्वन्तौ शासेः शतरिजक्षित्यादयइत्यभ्यस्तत्वादभ्यस्तानामादिरित्याद्युदात्तत्वं किंच अंजसामुख्यत्वेन प्रकृष्टंरजः उदकं वृष्टिलक्षणंशासता शासतौ बलाद्विधेयीकुर्वन्तौ ॥ ४ ॥