श्रवणम्

1.75.4
त्वं जा॒मिर्जना᳚ना॒मग्ने᳚ मि॒त्रो अ᳚सि प्रि॒यः ।
सखा॒ सखि᳚भ्य॒ ईड्य᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वम् । जा॒मिः । जना᳚नाम् । अग्ने᳚ । मि॒त्रः । अ॒सि॒ । प्रि॒यः ।
सखा᳚ । सखि᳚॑भ्यः । ईड्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वमुक्तप्रकारेणाचिंत्यरूपोऽप्यनुग्रहीतृतया सर्वेषां जनानां जामिर्बंधुरसि । तथा प्रियः प्रीणयिता त्वं यजमानानां मित्रः प्रमीतस्त्रायकोऽसि । ईड्यः स्तुतिभिः स्तुत्यस्त्वं सखिभ्यः समानख्यानेभ्य ऋत्विग्भ्यः सखा सखिवदत्यंतं प्रियोऽसि ॥ जामिः । जमु अदने । जमंति सहैकस्मिन्पात्रेऽदंतीति जामयो बंधवः । जनिघसिभ्यामिण् (उ ४-१२९) इति विधीयमान इण् बहुलवचनादस्मादपि द्रष्टव्यः । ईड्यः । ईड स्तुतौ । ईडवंदवृशंसदुहां ण्यत इत्याद्युदात्तत्वं ॥ ४ ॥