श्रवणम्

1.75.3
कस्ते᳚ जा॒मिर्जना᳚ना॒मग्ने॒ को दा॒श्व᳚ध्वरः ।
को ह॒ कस्मि᳚न्नसि श्रि॒तः ॥
▶ पदपाठः (Word-by-word)
कः । ते॒ । जा॒मिः । जना᳚नाम् । अग्ने᳚ । कः । दा॒शु॑अ᳚ध्वरः ।
कः । ह॒ । कस्मि᳚न् । अ॒सि॒ । श्रि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने जनानां मनुष्याणां मध्ये ते तव को जामिः को बंधुः । त्वं सर्वैर्गुणैरधिकोऽसि । तवानुरूपो बंधुर्नास्तीति भावः । को दाश्वध्वरः । दाशुर्दत्तोऽध्वरो यज्ञो येन स तथोक्तः । त्वां यष्टुमपि समर्थः कोऽपि नास्तीत्यर्थः । को ह त्वं कथंभूतस्त्वम् । ईदृग्रूप इति सर्वैर्न ज्ञायस इत्यर्थः । कस्मिन् स्थाने श्रित आश्रितोऽसि । वर्तसे । तत्स्थानमपि न केनचित् ज्ञायते । अतस्त्वमस्माभिर्मांसदृष्टिभिः कथमुपलब्धव्य इत्यग्निः प्रशस्यते ॥ दाश्वध्वरः । दाशृ दाने । उणादयो । बहुलमिति बहुलवचनात्कर्मण्युण्प्रत्ययः । बहुव्रीहौ पूर्वपद प्रकृतिस्वरत्वम् । यणादेश उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्येति स्वरितत्वं ॥ ३ ॥