श्रवणम्

1.157.6
यु॒वं ह᳚ स्थो भि॒षजा᳚ भेष॒जेभि॒रथो᳚ ह स्थो र॒थ्या॒३॒᳚ राथ्ये᳚भिः ।
अथो᳚ ह क्ष॒त्रमधि᳚ धत्थ उग्रा॒ यो वां᳚ ह॒विष्मा॒न्मन᳚सा द॒दाश᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । ह॒ । स्थः॒ । भि॒षजा᳚ । भे॒ष॒जेभिः᳚ । अथो॒ इति᳚ । ह॒ । स्थः॒ । र॒थ्या᳚ । रथ्ये᳚भि॒रिति॒ रथ्ये᳚भिः ।
अथो॒ इति᳚ । ह॒ । क्ष॒त्रम् । अधि᳚ । ध॒त्थ॒ । उ॒ग्रा॒ । यः । वा॒म् । ह॒विष्मा᳚न् । मन᳚सा । द॒दाश᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ युवंयुवां हखलु भेषजेभिः भेषजैरौषधैः भेषजौषधभैषज्यान्यगदोजायुरगदं तत्रऔष- धमितिचाभिधानात् अथो अपिच रथ्येभिः रथवोढृभिरश्वैः रथ्यारथवन्तौस्थः आवांरथोअश्विनेत्या- दिप्रसिद्धिद्योतनार्थोहशब्दः अनयोरथेनविशेषसंबन्धः युवोर्हिपूर्वेसवितोषसोरथमृतायचित्रंघृत- वन्तमिष्यतीत्यादिमन्त्रान्तरेषुप्रसिद्धः अथोअपिच युवयोः क्षत्रंबलं अधिह अधिकंखलु हशब्दःप्रसि- द्धौ यस्मादेवंतस्मात् हेउग्रा उद्गूर्णसामर्थ्यौ अश्विनौवांयुवाभ्यां योहविष्मान् आज्यपुरोडाशादिह- विर्युक्तोयजमानः मनसायुष्मदायत्तेनचेतसा ददाश ददाति तस्यहविरादिकंधत्थः धारयथः अत्य- धिकमनुगृह्णीथइत्यर्थः प्रभूतबलौयुवांरथमारुह्य अस्मद्देवयजनमागत्य हविःप्रदंमांधृत्वाअस्मद्यज्ञं अस्मान्विचिकित्सतमितितात्पर्यार्थः ॥ ६ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

0इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरेणसायणा चार्येणविरचितेमाधवीयेवेदार्थप्रकाशेऋक्संहिताभाष्येद्वितीयाष्टके द्वितीयोऽध्यायः समाप्तः ॥ २ ॥