आ न॒ ऊर्जं᳚ वहतमश्विना यु॒वं मधु᳚मत्या न॒ः कश᳚या मिमिक्षतम् ।
प्रायु॒स्तारि᳚ष्टं॒ नी रपां᳚सि मृक्षतं॒ सेध᳚तं॒ द्वेषो॒ भव᳚तं सचा॒भुवा᳚ ॥
प्रायु॒स्तारि᳚ष्टं॒ नी रपां᳚सि मृक्षतं॒ सेध᳚तं॒ द्वेषो॒ भव᳚तं सचा॒भुवा᳚ ॥
पदपाठः (Word-by-word)
आ । नः॒ । ऊर्ज᳚म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । मधु᳚॑मत्या । नः॒ । कश᳚या । मि॒मि॒क्ष॒त॒म् ।
प्र । आयुः᳚ । तारि᳚ष्टम् । निः । रपां᳚सि । मृ॒क्ष॒त॒म् । सेध᳚तम् । द्वेषः᳚ । भव᳚तम् । स॒चा॒॑भुवा᳚ ॥
प्र । आयुः᳚ । तारि᳚ष्टम् । निः । रपां᳚सि । मृ॒क्ष॒त॒म् । सेध᳚तम् । द्वेषः᳚ । भव᳚तम् । स॒चा॒॑भुवा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअश्विना अश्विनौ युवंयुवांनोऽस्माकंऊर्जंबलप्राणनसमर्थं अन्नमावहतंप्रापयतं किंच नोऽस्मान् मधुमत्या माधुर्योपेतयाकशया वाचा इष्टप्रदानरूपयामिमिक्षतंसिंचतंप्रीणयतं कशेति वाङ्गाम कशाधिषणेतितन्नामसूक्तत्वात् यद्वा मधुमत्या माधुर्यवृष्टिमत्यामाधुर्योपेतयाकशया प्रतोदन्या नोऽस्मान्मिमिक्षतं मध्वित्युदकनाम मधु पुरीषमितितन्नामसूक्तत्वात् कशया अश्वताडनेनशीघ्रमा- गत्यवृष्टिरूपंफलंदास्यतइतिकशायामधुमत्त्वम् किंच आयुरायुष्यं प्रतारिष्टंप्रवर्धयतं प्रपूर्वस्तिरतिर्व- र्धनार्थः तथारपांसि मृक्षतं पापानिनिःशेषेणशोधयतं रपोरिप्रमितिपापनामनीभवतइतियास्कः । किंच द्वेषः द्वेष्यं अमित्रादिकंसेधतंनाशयतंइदंचभाव्यंसचाभुवासहभुवौ अस्मत्कार्येषुसहभवनवन्तौ- भवतं भवन्तौऎकमत्यंभजतइत्यर्थः वाक्यभेदादनिघातः ॥ ४ ॥