यद्यु॒ञ्जाथे॒ वृष᳚णमश्विना॒ रथं᳚ घृ॒तेन᳚ नो॒ मधु᳚ना क्ष॒त्रमु᳚क्षतम् ।
अ॒स्माकं॒ ब्रह्म॒ पृत᳚नासु जिन्वतं व॒यं धना॒ शूर᳚साता भजेमहि ॥
अ॒स्माकं॒ ब्रह्म॒ पृत᳚नासु जिन्वतं व॒यं धना॒ शूर᳚साता भजेमहि ॥
पदपाठः (Word-by-word)
यत् । यु॒ञ्जाथे॒ इति᳚ । वृष᳚णम् । अ॒श्वि॒ना॒ । रथ᳚म् । घृ॒तेन᳚ । नः॒ । मधु᳚ना । क्ष॒त्रम् । उ॒क्ष॒त॒म् ।
अ॒स्माक᳚म् । ब्रह्म᳚ । पृत᳚नासु । जि॒न्व॒त॒म् । व॒यम् । धना᳚ । शूर᳚॑साता । भ॒जे॒म॒हि॒ ॥
अ॒स्माक᳚म् । ब्रह्म᳚ । पृत᳚नासु । जि॒न्व॒त॒म् । व॒यम् । धना᳚ । शूर᳚॑साता । भ॒जे॒म॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेअश्विना अश्विनौ यत् यदावृषं वृष्ट्यादिवर्षकंरथं युंजाथेयोजयथः तदा नः क्षत्रं अस्मदीयंबलं- क्षत्रियजातंवा घृतेनोदकेन मधुनामधुरेण उक्षतं सिंचतं प्रबर्धयतमित्यर्थः यद्वा घृतेनक्षरणरूपेण मधुनामधुरेण अमृतेनउक्षतं युष्मद्रथस्थेनमधुनाअस्मदीयंबलंप्रवर्धयतमित्यर्थः अश्विनोरथस्यमधु- पूर्णत्वंमधुवाहनोरथइत्यादिषुप्रसिद्धम् किंच अस्माकंपृतनासुअस्मदीयासुपुत्रभृत्यादिमनुष्यरूपासु- प्रजासु ब्रह्मब्राह्मंतेजोजिन्वतंप्रीणयतं पृतनाइतिमनुष्यनाम विवस्वन्तः पृतनाइति तन्नामसूक्तत्वात् यद्वा पृतनासु परकीयासुप्रजासु ब्रह्मतासांपरिवृढमन्नमस्माकं जिन्वतं प्रीणयतं ब्रह्मेत्यन्ननाम ब्रह्म वर्चइतितन्नामसूक्तत्वात् वयंच शूरसाता शूरसातौ शूराणां प्रहारादिनायुक्तेसंग्रामे धनातदीयानिध- नानि बहुविधानिभजेमहि लभेमहि ॥ २ ॥