श्रवणम्

1.157.5 समानपद
यु॒वं ह॒ गर्भं॒ जग᳚तीषु धत्थो यु॒वं विश्वे᳚षु॒ भुव᳚नेष्व॒न्तः ।
यु॒वम॒ग्निं च᳚ वृषणाव॒पश्च॒ वन॒स्पती{4}᳚रश्विना॒वैर᳚येथाम् ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । ह॒ । गर्भ᳚म् । जग᳚तीषु । ध॒त्थः॒ । यु॒वम् । विश्वे᳚षु । भुव᳚नेषु । अ॒न्तरिति᳚ ।
यु॒वम् । अ॒ग्निम् । च॒ । वृ॒ष॒णौ॒ । अ॒पः । च॒ । वन॒स्पती᳚न् । अ॒श्वि॒नौ॒ । ऐर᳚येथाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनाअश्विनौ युवंह युवांखलु जगतीष्वन्तः गमनशीलासुगोषुमध्येगर्भंधत्थः धारयथः नकेव- लंगोष्वेव अपितुयुवंयुवां विश्वेषुसर्वेषुभुवनेषुभूतजातेषु अन्तर्मध्येगर्भंधत्थः वृष्टिद्वारामिषरूपत्वेन- गर्भस्थरेतसः पोषकत्वात् किंच हेवृषणौकामानांवर्षितारौ युवंयुवांअग्निंचअपश्च वनस्पतींश्चऎरये- थांप्रवर्तयेथां आहुतिभोगायाग्निं स्वीकृत्यचवृष्ट्युदकानि उदकैरोषधिवनस्पत्यादिकंएतान्यस्मदर्थं- प्रैरयेथाम् ॥ ५ ॥