श्रवणम्

1.39.2
स्थि॒रा वः᳚ स॒न्त्वायु᳚धा परा॒णुदे᳚ वी॒ळू उ॒त प्र᳚ति॒ष्कभे᳚ ।
यु॒ष्माक᳚मस्तु॒ तवि᳚षी॒ पनी᳚यसी॒ मा मर्त्य᳚स्य मा॒यिनः᳚ ॥
▶ पदपाठः (Word-by-word)
स्थि॒रा । वः॒ । स॒न्तु॒ । आयु᳚धा । प॒रा॒॑नुदे᳚ । वी॒ळु । उ॒त । प्र॒ति॒॑स्कभे᳚ ।
यु॒ष्माक᳚म् । अ॒स्तु॒ । तवि᳚षी । पनी᳚यसी । मा । मर्त्य᳚स्य । मा॒यिनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो व आयुधा युष्माकमायुधानि पराणुदे शत्रूणामपनोदनाय स्थिरा संतु स्थिराणि भवंतु । उतापि च प्रतिष्कभे शत्रूणां प्रतिबंधाय वीळु संतु । दृढानि संतु । युष्माकं तविषी बलं पनीयसी अतिशयेन स्तोतव्यं भवतु । मायिनोऽस्मासु च्छद्मचारिणो मर्त्यस्य मनुष्यस्य शत्रोर्मा । बलं मा भवतु ॥ स्थिरा । आयुधा । उभयत्र शेश्छंदसि बहुलमिति शेर्लोपः । पराणुदे । णुद प्रेरणे । संपदादिलक्षणः क्विप् । उपसर्गादसमासेऽपि (पा ८-४-१४) इति णत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । वीळु । सुपां सुलुगिति विभक्तेर्लुक् । ईषाअक्षादित्वात्प्रकृतिभावः । पा ६-१-१२७-२ । प्रतिष्कुभे । स्कन्भुः सौत्रो धातुः । संपदादिलक्षणो भावे क्विप् । अनिदितामिति नलोपः । पनीयसी । पनतिः स्तुत्यर्थः । अस्मादौणादिकः कर्मण्यसुन् । तत ईयसुनि टीरिति टलोपः । उगितश्चेति ङीप् । ईयसुनो नित्त्वादाद्युदात्तत्वम् । मायिनः । मायाशब्दस्य व्रीह्यादिषु पाठात् व्रीह्यादिभ्यश्चेति मत्वर्थीय इनिः ॥ २ ॥