श्रवणम्

1.39.10 समानपद
असा॒म्योजो᳚ बिभृथा सुदान॒वो॑सा᳚मि धूतय॒ः शवः᳚ ।
ऋ॒षि॒द्विषे᳚ मरुतः परिम॒न्यव॒ इषुं॒ न सृ᳚जत॒ द्विष᳚म् ॥
▶ पदपाठः (Word-by-word)
असा᳚मि । ओजः᳚ । बि॒भृ॒थ॒ । सु॒॑दा॒न॒वः॒ । असा᳚मि । धू॒त॒यः॒ । शवः᳚ ।
ऋ॒षि॒॑द्विषे᳚ । म॒रु॒तः॒ । प॒रि॒॑म॒न्यवे᳚ । इषु᳚म् । न । सृ॒ज॒त॒ । द्विष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुदानवः शोभनदानोपेता मरुतः असामि संपूर्णमोजो बलं बिभृथ । धारयथ । हे धूतयः कंपनकारिणो मरुतः असामि संपूर्णं शवो बलम् । परिमन्यवे कोपपरिवृताय ऋषिद्विषे ऋषीणां द्वेषं कुर्वते शत्रवे तद्विनाशार्थं द्विषं द्वेषकारिणं हंतारं सृजत । तत्र दृष्टांतः । इषुं न । यथा शत्रोरुपरि बाणं मुंचंति तद्वत् । अत्र निरुक्तम् । असामि सामिप्रतिषिद्धं सामि स्यतेः । असाम्योजो बिभृथा सुदानवः । असुसमाप्तं बलं बिभृथ । कल्याणदानाः (नि ६-२३) इति ॥ बिभृथ । डुभृञ् धारणपोषणयोः जुहोत्यादित्वात् । श्लुः । भृञामिदित्यभ्यासस्येत्वम् । ऋषिद्विषे । ऋषीन् द्वेष्टीति ऋषिद्विट् । सत्सूद्विषेत्यादिना क्विप् । परिमन्यवे । मन्युना परिवृतः परिमन्युः । प्रादिसमासे परेरभितोभाविमंडलम् (पा ६-२-१८२) इत्युत्तरपदांतोदात्तत्वम् । इषुम् । इषु गतौ । इष्यति गच्छतीतीषुः । इषेः किच्च (उ १-१४) इत्युप्रत्ययः । धान्ये निदित्यनुवृत्तेर्नित्त्वादाद्युदात्तत्वम् । सृजत । सृज विसर्गे । विकरणस्य ङित्त्वाद्गुणाभावः । द्विषं क्विप्चेति क्विप् ॥ १७ ॥ १० ॥