श्रवणम्

1.39.8
यु॒ष्मेषि᳚तो मरुतो॒ मर्त्ये᳚षित॒ आ यो नो॒ अभ्व॒ ईष᳚ते ।
वि तं यु᳚योत॒ शव᳚सा॒ व्योज᳚सा॒ वि यु॒ष्माका᳚भिरू॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
यु॒ष्मा॑इ᳚षितः । म॒रु॒तः॒ । मर्त्य᳚॑इषितः । आ । यः । नः॒ । अभ्वः᳚ । ईष᳚ते ।
वि । तम् । यु॒यो॒त॒ । शव᳚सा । वि । ओज᳚सा । वि । यु॒ष्माका᳚भिः । ऊ॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो यो यः कश्चिदभ्वः शत्रुर्युष्मेषितो युष्माभिः प्रेषितो मर्त्येषितो मारकैरन्यैर्वा प्रेषितः सन् नोऽस्मान्प्रति आ ईषते आभिमुख्येन प्राप्नोति । तं शत्रुं शवसाऽन्नेन वि युयोत । विभक्तं कुरुत । तथौजसा बलेन वि युयोत । युष्माकाभिरूतिभिर्युष्मत्संबंधिभी रक्षणैश्च वियुयोत ॥ युष्मेषितः । युष्माभिरिषितः सुब्लुकि प्रत्ययलक्षणेन युष्मदस्मदोरनादेश इत्यात्वम् । न च न लुमतांगस्येति प्रतिषेधः । इकोऽचि विभक्तौ (पा ७-१-७३) इत्यत्राज् ग्रहणेन तस्य पाक्षिकत्वोक्तेः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । मर्त्येषितः । पूर्ववत् । अभ्वः । आभवतीत्यभ्वः शत्रुः । पृषोदरादित्वादभिमतरूपस्वरसिद्धिः । ईषते । ईष गतिहिंसादर्शनेषु । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । युयोत । यु मिश्रणामिश्रणयोः । लोण्मध्यमबहुवचने बहुलं छंदसीति शपः श्लुः । तप्तनप्तनथनाश्चेति तबादेशः । पित्त्वाद्गुणः । युष्माकाभिः । युष्मत्संबंधिनीभिः । तस्मिन्नणि च युस्माकास्माकौ (पा ४-३-२) इि युष्मच्छब्दस्य युष्माकादेशः । ङीब्वृद्थी छांदसत्वान्न क्रियेते । ऊतिभिः । अवतेः क्तिनि ज्वरत्वरेत्यादिना ऊट् । ऊतियूतीत्यादिना क्तिन उदात्तत्वं ॥ ८ ॥