अ॒पो दे॒वीरुप᳚ ह्वये॒ यत्र॒ गाव॒ः पिब᳚न्ति नः ।
सिन्धु᳚भ्य॒ः कर्त्वं᳚ ह॒विः ॥
सिन्धु᳚भ्य॒ः कर्त्वं᳚ ह॒विः ॥
पदपाठः (Word-by-word)
अ॒पः । दे॒वीः । उप᳚ । ह्व॒ये॒ । यत्र᳚ । गावः᳚ । पिब᳚न्ति । नः॒ ।
सिन्धु᳚॑भ्यः । कर्त्व᳚म् । ह॒विः ॥
सिन्धु᳚॑भ्यः । कर्त्व᳚म् । ह॒विः ॥
सायणभाष्यम् (Sayana Commentary)
नोऽस्मदीया गावो यत्र यास्वप्सु पिबंति पानं कुर्वंति ता आपो देवीरुप ह्वये । आह्वयामि । सिंधुभ्यः स्यंदनशीलाभ्योऽद्भ्यो देवताभ्यो हविः कर्त्वम् । अस्माभिः कर्तव्यं ॥ अपः । ऊडिदमित्यादिना शस उदात्तत्वम् । पिबंति । प्राघ्रेत्यादिना । पिबादेशः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वं ॥ निपातैर्यद्यदीत्यादिना निघाताभावः । कर्त्वम् । डुकृञ् करणे । कृत्यार्थे तवैकेन्केन्यत्वनः (पा ३-४-१४) इति कर्मणि त्वन्प्रत्ययः । गुणः । नित्सर्वेणाद्युदात्तत्वं ॥ १८ ॥