इ॒न्द्र॒वा॒यू म᳚नो॒जुवा॒ विप्रा᳚ हवन्त ऊ॒तये᳚ ।
स॒ह॒स्रा॒क्षा धि॒यस्पती᳚ ॥
स॒ह॒स्रा॒क्षा धि॒यस्पती᳚ ॥
पदपाठः (Word-by-word)
इ॒न्द्र॒वा॒यू इति᳚ । म॒नः॒॑जुवा᳚ । विप्राः᳚ । ह॒व॒न्ते॒ । ऊ॒तये᳚ ।
स॒ह॒स्र॒॑अ॒क्षा । धि॒यः । पती॒ इति᳚ ॥
स॒ह॒स्र॒॑अ॒क्षा । धि॒यः । पती॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
विप्रा मेधाविन ऋत्विग्यजमाना ऊतये रक्षणार्थमिंद्रवायू हवंते । आह्वयंति । कीदृशौ । मनोजुवौ मन इव वेगवत्तरौ सहस्राक्षा सहस्रनयनयुक्तौ । यद्यपींद्र एव सहस्राक्षस्तथापि च्छत्त्रिन्यायेन वायुरपि तथोच्यते । धियस्पती । कर्मणो बुद्धेर्वा पालकौ ॥ मनोजुवा । जवतिर्गतिकर्मा । मनोवज्जवत इति मनोजुवा मन इव वेगयुक्तौ । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुपां सुलुगित्याकारः । विप्राः । औणादिको रन् । रन्प्रत्ययांत आद्युदात्तः । ऊतये । ऊतियूतीत्यादिना क्तिन उदात्तत्वम् । सहस्राक्षा । सहस्रमक्षीणि ययोस्तौ । बहुव्रीहौ सक्थ्यक्ष्णोः (पा ५-४-११३) इति षच् समासांतः । बहुव्रीहिस्वरे प्राप्ते समासांतप्रत्ययस्य सति शिष्वत्वाच्चित इत्यंतोदात्तत्वम् । धियः । सावेकाच इति ङस उदात्तत्वम् । षष्ठ्याः पतिपुत्रेति संहितायां विसर्जनीयस्य सकारः । पती । डत्यंत आद्युदात्तः ॥ ३ ॥