ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो᳚ जा॒ता अ᳚वन्तु नः ।
म॒रुतो᳚ मृळयन्तु नः ॥
म॒रुतो᳚ मृळयन्तु नः ॥
पदपाठः (Word-by-word)
ह॒स्का॒रात् । वि॒॑द्युतः᳚ । परि᳚ । अतः᳚ । जा॒ताः । अ॒व॒न्तु॒ । नः॒ ।
म॒रुतः᳚ । मृ॒ळ॒य॒न्तु॒ । नः॒ ॥
म॒रुतः᳚ । मृ॒ळ॒य॒न्तु॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हस्काराद्दीप्तिकराद्विद्युतो विशेषेण दीप्यमानादतोऽंतरिक्षात्परि जाताः सर्वत उत्पन्ना मरुतो नोऽस्मानवंतु । रक्षंतु । तथाविधा मरुतो नोऽस्मान्मृळयंतु । सुखयंतु ॥ हस्कारात् । हसे हसने । अत्र तु प्रकाशमात्रे वर्तते । अस्मात्संपदादिलक्षणः क्विप् । अस्मिन्नुपपदे डुकृञ् करण इत्यास्मात्कर्मण्यण् (पा ३-२-१) इत्यण् प्रत्यय ॥ तत्पुरुषे तुल्यार्थेत्यादिना पूर्वपदप्रकृतिस्वरत्वे प्राप्ते गतिकारकेत्यादिना कृदुत्तरपदप्रकृतिस्वरत्वम् । अतः कृकमीत्यादिना (पा ८-३-४६) विसर्जनीयस्य सत्वं ॥ १२ ॥