श्रवणम्

1.23.24
सं मा᳚ग्ने॒ वर्च᳚सा सृज॒ सं प्र॒जया॒ समायु᳚षा ।
वि॒द्युर्मे᳚ अस्य दे॒वा इन्द्रो᳚ विद्यात्स॒ह ऋषि᳚भिः ॥
▶ पदपाठः (Word-by-word)
सम् । मा॒ । अ॒ग्ने॒ । वर्च᳚सा । सृ॒ज॒ । सम् । प्र॒॑जया᳚ । सम् । आयु᳚षा ।
वि॒द्युः । मे॒ । अ॒स्य॒ । दे॒वाः । इन्द्रः᳚ । वि॒द्या॒त् । स॒ह । ऋषि᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वर्चः प्रजायुर्भिर्मां संयोजय । देवाः सोमपातारोऽस्य मे यजमानस्य विद्यु ॥ अनुष्ठानं जानीयुः । किंच इंद्रश्च ऋषिगणैः सह ममानुष्ठानं विद्यात् । जानीयात् ॥ विद्युः । विद ज्ञाने । लिङि झेर्जुस् (पा ३-४-१०८) यासुट् । लिङः सलोपः (पा ७-२-७९) इति सकारलोपः । उस्यपदांतात् (पा ६-१-९६) इति पररूपत्वम् । यासुट उदात्तत्वेनैकादेश उकारोऽप्युदात्तः ॥ अस्य । इदमोऽन्वादेश इत्यशनुदात्तः । विभक्तिरपि सुप्त्वेनानुदात्ता । सह ऋषिभिरित्यत्र ऋत्यकः (पा ६-१-१२८) इति प्रकृतिभावः ॥ १२ ॥ ५ ॥ २४ ॥