श्रवणम्

1.136.5
यो मि॒त्राय॒ वरु᳚णा॒यावि᳚ध॒ज्जनो᳚॑न॒र्वाणं॒ तं परि᳚ पातो॒ अंह᳚सो दा॒श्वांसं॒ मर्त॒मंह᳚सः ।
तम᳚र्य॒माभि र᳚क्षत्यृजू॒यन्त॒मनु᳚ व्र॒तम् ।
उ॒क्थैर्य ए᳚नोः परि॒भूष᳚ति व्र॒तं स्तोमै᳚रा॒भूष᳚ति व्र॒तम् ॥
▶ पदपाठः (Word-by-word)
यः । मि॒त्राय᳚ । वरु᳚णाय । अवि᳚धत् । जनः᳚ । अ॒न॒र्वाण᳚म् । तम् । परि᳚ । पा॒तः॒ । अंह᳚सः । दा॒श्वांस᳚म् । मर्त᳚म् । अंह᳚सः ।
तम् । अ॒र्य॒मा । अ॒भि । र॒क्ष॒ति॒ । ऋ॒जु॒॑यन्त᳚म् । अनु᳚ । व्र॒तम् ।
उ॒क्थैः । यः । ए॒नोः॒ । प॒रि॒॑भूष᳚ति । व्र॒तम् । स्तोमैः᳚ । आ॒॑भूष᳚ति । व्र॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योजनः यजमानोमित्रायवरुणायच कर्मणःसंप्रदानत्वाच्चतुर्थी मित्रंवरुणंच अविधत् परिचरति तंजनंयुष्मत्परिचारकं अनर्वाणं अद्वेषिणं भ्रातृव्योवाअर्वेतिश्रुतेः । अनल्पंवा अनन्यसेवितं परिपाथः परितोरक्षनं कस्मादितितदुच्यते—अंहसः न्यूनातिरेकजनितात्पापात् नकेवलं सामान्यं जनं अपितु- दाश्वांसं हविर्दत्तवन्तं मर्तंमरणधर्माणं अंहसःसर्वस्मादपिपापात् नकेवलं भवंतोवेवअपितु अर्यमास- र्वेपांनियन्तादेवः ऋजूयन्तंदेवेष्वार्जवमाचरन्तं यजमानं व्रतमनु तदीयंकर्मानुलक्ष्य अभिरक्षति अभितोरक्षति कोस्यजनस्यविशेषइतितत्राह—योयजमानः उक्थैः शस्त्रैः एनोएनयोर्मित्रावरुणयोर्व्र- तंकर्मपरिभूपति परिगृह्णाति तथायजमानः युष्मदीयंव्रतंकर्म स्तोमैः स्तोत्रैर्गानयुक्तमन्त्रसाध्यैः आ- भूपति सर्वतः अलंकरोति भूषअलङ्कारे भौवादिकः तमभिरक्षन्तीत्यन्वयः ॥ ५ ॥