ज्योति᳚ष्मत्क्ष॒त्रमा᳚शाते आदि॒त्या दानु᳚न॒स्पती᳚ ।
मि॒त्रस्तयो॒र्वरु᳚णो यात॒यज्ज᳚नो॑र्य॒मा या᳚त॒यज्ज᳚नः ॥
पदपाठः (Word-by-word)
ज्योति᳚ष्मत् । क्ष॒त्रम् । आ॒शा॒ते॒ इति᳚ । आ॒दि॒त्या । दानु᳚नः । पती॒ इति᳚ ।
मि॒त्रः । तयोः᳚ । वरु᳚णः । या॒त॒यत्॑ज᳚नः । अ॒र्य॒मा । या॒त॒यत्॑ज᳚नः ॥
सायणभाष्यम् (Sayana Commentary)
अयंयजमानः ज्योतिष्मतीं आहवनीयाग्नेस्तेजोयुक्तां अदितिं अदीनांसंपूर्णलक्षणां क्षितिं अग्नेर्नि- वासयोग्यांभूमिंउत्तरवेदिलक्षणांधारयत् धारयति स्वयंकृतवानित्यर्थः एतावतीवैपृथिवीयावतीवे- दिरितिश्रुतेः । तथास्वर्वतीं यज्ञनिष्पत्तिद्वारास्वर्गवतीं ईदृशींतांआसचेते मित्रावरुणौसंगतौभवतः नकेवलमेतस्मिन्नेवाहनि किंतु दिवेदिवेसर्वेष्वप्यहस्सु कीदृशौतौदिवेदिवे प्रतिदिनं जागृवांसा प्रबो- धंकुर्वाणौ यज्ञंगंतुंअनलसावित्यर्थः किंच वेदिमागत्यज्योतिष्मत् आज्यादिस्वीकारेणातिशयेनतेजो- युक्तंक्षत्रंबलं आशाते अश्नुवाते प्राप्नुतः अश्नोतेश्छन्दसे लिटि अनित्यमागमशासनमितिवचनान्नुडभा- वः लटिवाछान्दसःशपःश्लुः कीदृशावितितावाह—अदित्याअदितेः पुत्रौदानुनस्पती दानस्यआज्या- दिप्रदानस्य स्वामिनौअभिमतदानस्यपालयितारौवा षष्ठ्याः पतिपुत्रेतिसंहितायांसत्वं मित्रश्चवरु- णश्चतावुभौदेवौ अर्यमात्व्यस्तु देवस्तयोः मित्रावरुणयोः यातयज्जनःतयोरेवसंबन्धात् उभयोर्मध्ये- स्थितः यातयज्जनः स्वस्वव्यापारनियोजितसर्वजनः मित्रावरुणौ अहोरात्रदेवौ अर्यमातुयोरेवसाम- र्थ्यात् सर्वप्राणिनःप्रेरयतीत्यर्थः किंच यातयज्जनः यातयन्तिलोकंयदीयाजनाः प्रेष्याःसतादृशः यद्वा यात्यमानानरकेनिपात्यमानाजनाः प्राणिनः अयष्टारोयेन सतादृशः कर्मसाक्षित्वात्स्वस्व- कर्मानुरोधेन प्राणिनः सुकृतेयातयतीत्यर्थः तादृशः अर्यमा मित्रावरुणयोरधीनोवर्ततइतिशेषः ॥ ३ ॥