श्रवणम्

1.24.11 समानपद
तत्त्वा᳚ यामि॒ ब्रह्म᳚णा॒ वन्द᳚मान॒स्तदा शा᳚स्ते॒ यज᳚मानो ह॒विर्भि᳚ः ।
अहे᳚ळमानो वरुणे॒ह बो॒ध्युरु᳚शंस॒ मा न॒ आयु॒ः प्र मो᳚षीः ॥
▶ पदपाठः (Word-by-word)
तत् । त्वा॒ । या॒मि॒ । ब्रह्म᳚णा । वन्द᳚मानः । तत् । आ । शा॒स्ते॒ । यज᳚मानः । ह॒विः॑भिः᳚ ।
अहे᳚ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु᳚॑शंस । मा । नः॒ । आयुः᳚ । प्र । मो॒षीः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एकादशिनस्य वारुणस्य पशोर्वपापुरोडाशयोस्तत्त्वा यामीति द्वे ऋचौ याज्ये । सूत्रितं च । तत्त्वा यामि ब्रह्मणा वंदमान इति द्वे अस्तभ्नाद्याम् (आ ३-७) इति ॥ वरुणप्रघासेषु वारुणस्य हविषो याज्या तत्त्वा यामीत्येषा पंचम्यां पौर्णमास्यामित्यत्र सूत्रितम् । इमं मे वरुण श्रुधि तत्त्वा यामि ब्रह्मणा वंदमानः । अ २-१७ । इति ॥

हे वरुण मुमूर्षुरहं त्वां प्रति तदायुर्यामि । याचे । कीदृशः । ब्रह्मणा प्रौढेन स्तोत्रेण वंदमानः स्तुवन् । सर्वत्र यजमानोऽपि हविर्भिस्तदायुरा शास्ते । प्रार्थयते । त्वं चेह कर्मण्य हेलमानोऽनादरमकुर्वन्बोधि । अस्मदपेक्षितं बुध्यस्व । हे उरुशंस बहुभिः स्तुत्य नोऽस्मदीयमायुर्मा प्रमोषीः । प्रमुषितं मा कुरु । सप्तदशसंख्याकेषु यज्ञाकर्मस्वीमहे यामीति पठितम् । चाशब्दलोपश्छांदसः ॥ अहेळमानः । हेडृ अनादरे । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे सति धातुस्वरः शिष्यते । ततो नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधि । बुध अवगमने लोटः सेर्हिः । बहुलं छंदसीति विकरणस्य लुक् । वा छंदसि (पा ३-४-८८) इत्यपित्त्वाभावेन ङित्त्वाभावाल्लघूपधगुणः । हुझल्भ्यो हेर्धिरितिदेशः । धातोरंत्यलोपश्छांदसः । मोषीः । मुष स्तेये । लोडर्थे छांदसो लुङ् । वदव्रजेति प्राप्ताया वृद्धेर्नेट । पा ७-२-३,४ । इति प्रतिषेधे सति लघूपधगुणः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ ११ ॥