बाध᳚स्व दू॒रे निरृ᳚तिं परा॒चैः कृ॒तं चि॒देन॒ः प्र मु᳚मुग्ध्य॒स्मत् ॥
पदपाठः (Word-by-word)
बाध᳚स्व । दू॒रे । निः॑ऋ᳚तिम् । प॒रा॒चैः । कृ॒तम् । चि॒त् । एनः᳚ । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥
सायणभाष्यम् (Sayana Commentary)
हे राजन्वरुण ते तव शतं भिषजो बंधनिवारकाणि शतसंख्याकान्यौषधानि वैद्या वा संति । ते तव सुमतिरस्मदनुग्रहबुद्धिरुर्वी विस्तीर्णा गभीरा गांभीर्योपेता स्थिरास्तु । निर्ऋृतिमस्मदनिष्टकारिणीं निर्ऋृतिं पापदेवतां पराचैः पराङ्मुखां कृत्वा दूरेऽस्मत्तो व्यवहिते देशे स्थापयित्वा तां बाधस्व । कृतं चिदस्माभिरनुष्ठि तमप्येनः पापमस्मत् प्रमुमुग्धि । प्रकर्षेण मुक्तं नष्टं कुरु ॥ सुमतिः । तादौ चेति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते मन् क्तिन्नित्यादिनोत्तरपदांतोदात्तत्वम् । संहितायां विसर्जनीयसकारस्य युष्मत्तत्ततक्षुःष्वंतःपादम् (पा ८-३-१०३) इति षत्वम् । बाधस्व बाधृ विलोडने । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । निर्ऋृतिम् । तादौ चेति गतेः प्रकृतिस्वरत्वम् । मुमुग्धि । मुच्लृ मोक्षणे । बहुलं छंदसीति श्लुः । हुझल्भ्यो हेर्धिः (पा ६-४-१०१) तस्यापित्त्वेन ङित्त्वा द्गुणाभावः । चोः कुः (पा ८-२-३०) इति कुत्वं ॥ ९ ॥