श्रवणम्

1.22.6
अ॒पां नपा᳚त॒मव᳚से सवि॒तार॒मुप᳚ स्तुहि ।
तस्य᳚ व्र॒तान्यु᳚श्मसि ॥
▶ पदपाठः (Word-by-word)
अ॒पाम् । नपा᳚तम् । अव᳚से । स॒वि॒तार᳚म् । उप᳚ । स्तु॒हि॒ ।
तस्य᳚ । व्र॒तानि᳚ । उ॒श्म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र होता सामगमृत्विजमन्यं वा शस्त्रिणं ब्रूते । अवसेऽस्मान्रक्षितुं सवितारमुप स्तुहि । तस्य सवितुः संबंधीनि व्रतानि कर्माणि सोमयागादिरूपाण्युश्मसि । कामयामहे । कीदृशं सवितारम् । अपां नपातं जलस्य न पालकम् । संतापेन शोषक मित्यर्थः ॥ अपाम् । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । नपातम् । पा रक्षणे । अस्य शत्रंतः पाच्छब्दः । तस्य नञा समासे नभ्राण्नपादित्यादिना नलोपप्रतिषेध इति वृत्तिकारः । अग्निर्ह्यपो न पाति तच्छोषकत्वात् । तर्हि कथमपामिति षष्ठी । न लोकाव्ययनिष्ठाखलर्थेति (पा २-३-६९) कर्मणि षष्ठ्याः प्रतिषेधादिति चेत् । तर्ह्येषा शेषलक्षणास्तु । अग्न्यादित्यावपां कारणतया संबंधिनावग्नेराप इति श्रुतेः । आदित्याच्जायते वृष्टिः । मनु ३-७६ । इति स्मृतेश्च । अस्मिन्पक्ष उगिदचामिति नुमभावोऽपि निपातनादेवेति मंतव्यम् । पातेः क्विबंतस्य तुग्वा निपातनाद्द्रष्टव्यः । अथवा न पातयतीति नपात् । पग्लृ गताविति धातोर्ण्यंतात्क्विप् । अग्न्यादित्यौह्यपां न प्रापकौ प्रत्युत तच्छोषकौ । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अवसे । तुमर्थे सेसेनित्यादिना असेन् । नित्त्वादाद्युदात्तः । उश्मसि । वश कांतौ । अदिप्रभृतिभ्य इति शपो लुक् । इंदतो मसिरितीकारोपजनः ॥ ६ ॥