श्रवणम्

1.22.7
वि॒भ॒क्तारं᳚ हवामहे॒ वसो᳚श्चि॒त्रस्य॒ राध᳚सः ।
स॒वि॒तारं᳚ नृ॒चक्ष᳚सम् ॥
▶ पदपाठः (Word-by-word)
वि॒॑भ॒क्तार᳚म् । ह॒वा॒म॒हे॒ । वसोः᳚ । चि॒त्रस्य᳚ । राध᳚सः ।
स॒वि॒तार᳚म् । नृ॒॑चक्ष᳚सम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसोर्निवासहेतोश्चित्रस्य सुवर्णरजतादिरूपेण बहुविधस्य राधसो धनस्य विभक्तारं अस्य यजमानस्यैतावद्धनदानमुचितमिति विभागकारिणं नृचक्षसं मनुष्याणां प्रकाशकारिणं सवितारं हवामहे । कौषीतकिन एतस्या ऋचो व्याख्यानरूपे ब्रह्मणे सवितुर्विभागहेतुत्वमेव समामनंति । यदेतद्वसोश्चित्रं राधस्तदेष सविता विभक्ताभ्यः प्रजाभ्यो विभजतीति ॥ विभक्तारम् । तृचश्चित्त्वादंतोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । हवामहे । हूयतेर्बहुलं छंदसीति संप्रसारणम् । वसो । वस निवासे । शृस्वृस्निहीत्यादिना उः । निदित्यनुवृत्तेर्नित्त्वादाद्युदात्तः । राधसः । असुनंतो नित्त्वादाद्युदात्तः । नृचक्षसम् । नृंश्चष्व इति नृचक्षाः । तं नृचक्षसम् । चक्षेर्बहुलं शिच्च (उ ४-२३२) इत्यसुन् । शित्त्वादनार्धधातुकत्वेन ख्याञादेशाभावः । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ७ ॥