अग्ने॒ पत्नी᳚रि॒हा व᳚ह दे॒वाना᳚मुश॒तीरुप᳚ ।
त्वष्टा᳚रं॒ सोम᳚पीतये ॥
त्वष्टा᳚रं॒ सोम᳚पीतये ॥
पदपाठः (Word-by-word)
अग्ने᳚ । पत्नीः᳚ । इ॒ह । आ । व॒ह॒ । दे॒वाना᳚म् । उ॒श॒तीः । उप᳚ ।
त्वष्टा᳚रम् । सोम᳚॑पीतये ॥
त्वष्टा᳚रम् । सोम᳚॑पीतये ॥
सायणभाष्यम् (Sayana Commentary)
अग्निष्टोमे प्रातःसवनेऽग्ने पत्नीरिहा वहेति नेष्टुः प्रस्थितयाज्या । प्रशास्ता ब्राह्मणाच्छंसीति खंडे सूत्रितम् । अग्ने पत्नीरिहा वहोक्षान्नाय वशान्नाय । आ ५_५ । इति ॥
हे अग्नेः उशतीः कामयमाना देवानां पत्नीरिंद्राण्याद्या इह देवय जनदेश आ वह । तथा त्वष्टारं देवं सोमपीतये सोमपानार्थमुप समीप आ वह ॥ पत्नीः । डत्यंतः पतिशब्द आद्युदात्तः । पत्युर्नो यज्ञसंयोगे (पा ४-१-३३) इति ङीप् । तत्संनियोगेन नकारश्च ङीपः पित्त्वाड्डुतिस्वर एव । उशतीः । वश कांतौ । लटः शतृ । अदिप्रभृतिभ्यः शप इति शपो लुक् । शतुर्ङित्त्वाद्ग्रहिज्यादिना संप्रसारणम् । उगितश्चेति ङीप् । शतुरनुम इति ङीबुदात्तः ॥ ९ ॥