श॒तं चक्षा᳚णो अ॒क्षभि᳚र्दे॒वो वने᳚षु तु॒र्वणि᳚ः ।
सदो॒ दधा᳚न॒ उप᳚रेषु॒ सानु᳚ष्व॒ग्निः परे᳚षु॒ सानु᳚षु ॥
पदपाठः (Word-by-word)
श॒तम् । चक्षा᳚णः । अ॒क्ष॑भिः᳚ । दे॒वः । वने᳚षु । तु॒र्वणिः᳚ ।
सदः᳚ । दधा᳚नः । उप᳚रेषु । सानु᳚षु । अ॒ग्निः । परे᳚षु । सानु᳚षु ॥
सायणभाष्यम् (Sayana Commentary)
अयमग्निः एवेनगमनसाधनेनगमनेनवासद्यः अस्मदाह्वानानन्तरंपार्थिवंपृथिवीसंबन्धिस्थानं वेदिलक्षणमेवपरिपरितः यद्वा आभिमुख्यार्थोवापर्येति गच्छति कीदृशोऽग्निः मुहुर्गीः सर्वदागी- यमानःरेतः रेतःशब्देन तत्कार्यं हवीरूपमन्नमुच्यते तद्वान् मत्वर्थीयोलुप्यते वृषभःकामानां वर्षिता - कनिक्रदत् शब्दयन्पर्येति पुनः सएवविशॆष्यते रेतोदधत् आज्यादिस्वीकारेणअत्यधिकंसामर्थ्यंदधानः कनिक्रदच्छब्दयन्पर्येतीतिशेषः पुनः सएवविशॆष्यते अयमग्निर्देवः वनेषुसंभजनेषु स्तोत्रेषु निमित्त- भूतेषु अक्षभिः अक्षस्थानीयाभिर्ज्वालाभिः शतंचक्षाणः सर्वतः प्रकाशमानः यद्वा ज्वालोत्कर्षेण यजमानेनकृतं शतगुणितंप्रख्यापयन् तथातुर्वणिः शीघ्रगन्ताशत्रूणांहिंसकोवा तुर्वणिस्तूर्णवनिरिति- यास्कः । किंच सानुषुसमुच्छ्रितेषु सानुसमुच्छ्रितंभवतीतियास्कः । तेषुउपरेषु उपरमन्तेएष्वग्नय- इतिउपराधिष्ण्याः यजमानगृहावा तेषुसदोदधानः स्थानंधारयमाणोऽग्निः सद्यःपर्येतीतिपूर्वत्रान्व- यः किमर्थं परेषूत्कृष्टेषुसानुषुसमुच्छ्रितेषुकर्मसुहविष्षुवानिमित्तभूतेषु ॥ ३ ॥