विश्व᳚स्मा॒ इदि᳚षुध्य॒ते दे᳚व॒त्रा ह॒व्यमोहि᳚षे ।
विश्व᳚स्मा॒ इत्सु॒कृते॒ वार᳚मृण्वत्य॒ग्निर्द्वारा॒ व्यृ᳚ण्वति ॥
पदपाठः (Word-by-word)
विश्व᳚स्मै । इत् । इ॒षु॒ध्य॒ते । दे॒व॒॑त्रा । ह॒व्यम् । आ । ऊ॒हि॒षे॒ ।
विश्व᳚स्मै । इत् । सु॒॑कृते᳚ । वार᳚म् । ऋ॒ण्व॒ति॒ । अ॒ग्निः । द्वारा᳚ । वि । ऋ॒ण्व॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
अयमग्निर्दक्षिणे अभिमतं प्रदातुमुत्साहयुक्तेहस्तेवामेतरेकरे यजमानायदातव्यंवसुः धनंदधे धार- यति कीदृशोऽयं विश्वैःसर्वैर्गन्तव्यः यद्वा विश्वात्मकः विहायाः महान् विहायाइतिमहन्नाम विहायाः यह्वइति तन्नामसुपाठात् अरतिः ईश्वरः अरमणोवा अप्रीतिः अत्रवहिवस्यर्तिभ्यश्चिदित्यतिप्रत्ययः चिद्वद्भावादन्तोदात्तः धृत्वाचशिश्रथत् हस्तधृतंयजमानार्थंश्रथयतिददाति श्लथयतेर्लुङिचङिरूपं त- त्रदृष्टान्तः- तरणिर्न तरणिरिव तारकःसूर्यइव सयथास्वोपासकाय अभिमतं हस्तेधृत्वावितरति तद्वत् यद्वा तरणिः सर्वस्यतारकः नशिश्रथत् यजमानं नश्रथयति नमुंचति किंच श्रवस्ययानशिश्रथत् हवी- रूपान्नेच्छयैवन शिश्रथत् नविमुंचति अयमनुग्रहेणैवपालयते हविः स्वीकारस्तु व्यपदेशमात्रेणेति- भावः इदानीं प्रत्यक्षकृतः हेअग्नेदेवत्रा देवेषुमध्येअतिशयेनत्वं विश्वस्मै इत् सर्वस्मै एव इषुध्यते हविरात्मनइच्छते इन्द्रादये इषुध्यतिःकंड्वादिः हव्यं तत्तद्देवतामुद्दिश्यप्रत्तं पुरोडाशादिकं ओहिषे सर्वतोवहसि वहेर्लेटियजादित्वात्संप्रसारणम् किंचायमग्निर्विश्वस्मैसर्वस्मैसुकृते शोभनयज्ञकर्त्रे यज- मानायवारं सर्वैर्वरणीयं क्षुदादिनिवारकंवाअन्नादिकं ऋण्वति गच्छति करोतीत्यर्थः किंचायमग्निः द्वारास्व र्गाद्यभिमतद्वाराणिव्यृण्वति विवृणोति प्रतिबंधकपापापनयनद्वारा अभिमतानिसाधयती- त्यर्थः ऋण्वतिर्गतिकर्मा यद्वा रविर्गत्यर्थः इदित्त्वान्नुम् छान्दसंरेफस्यसंप्रसारणम् ॥ ६ ॥