स ह॒व्या मानु᳚षाणामि॒ळा कृ॒तानि᳚ पत्यते ।
स न᳚स्त्रासते॒ वरु᳚णस्य धू॒र्तेर्म॒हो दे॒वस्य᳚ धू॒र्तेः ॥
पदपाठः (Word-by-word)
सः । ह॒व्या । मानु᳚षाणाम् । इ॒ळा । कृ॒तानि᳚ । प॒त्य॒ते॒ ।
सः । नः॒ । त्रा॒स॒ते॒ । वरु᳚णस्य । धू॒र्तेः । म॒हः । दे॒वस्य᳚ । धू॒र्तेः ॥
सायणभाष्यम् (Sayana Commentary)
सोऽग्निर्मानुषे मनुष्यस्ययजमानस्यसंबन्धिनि वृजने वर्जनीयेपापे निमित्तभूतेसति यज्ञेषु निमि- त्तेषु शंतमः अत्यन्तंसुखतमः अनिष्टस्यनिवारकत्वात् अतएवहितः स्वर्गाद्यभिमतसाधकत्वात् किं- चायं यज्ञेषु विश्पतिः ऋत्विग्रूपाणां प्रजानां अतिशयेनपालकः पत्यावैश्वर्ये इतिपूर्वपदप्रकृतिस्वरेप्रा- प्ते परादिश्छन्दसिबहुलमित्युत्तरपदाद्युदात्तत्वम् अतएवप्रियश्चभवति तत्र दृष्टान्तः-जेन्योन्विश्पतिः जयशीलोराजेव सयथा परसेनाद्युपद्रवपरिहारेणसम्यक् परिपालनेनच प्रजानांप्रियोभवति किंच सोयमग्निः मानुषाणांमनुष्याणां यजमानानां संबन्धीनि हव्याहवींषि इळाकृतानि इळायांवेद्यां कृ- तानि संपादितानिउद्दिश्य पत्यतेपतति आगच्छति किंच सोऽग्निर्नोऽस्मान्यजमानान्वरुणस्य वारक- स्य धूर्तेर्हिंसकस्य भयात् त्रासते त्रायते यद्वा धूर्तेरितिपञ्चमी वरूनस्यपापदेवस्यधूर्तेर्हिंसकात् किंच महोमहतोदेवस्यधूर्तोर्हिंसातः त्रासतेपालयते अयष्टारमग्निर्हिनस्तीतिप्रसिद्धं यद्वा एकमेववाक्यंधूर्ते- र्हिंसकस्य महोमहतोवरुणस्यदेवस्य वरुणाख्यायाः पापदेवतायाः धूर्तेर्हिंसातोनोऽस्मान्सोग्निस्त्रासते त्रायते ॥ ७ ॥