श्रवणम्

1.117.21 समानपद
यवं॒ वृके᳚णाश्विना॒ वप॒न्तेषं᳚ दु॒हन्ता॒ मनु᳚षाय दस्रा ।
अ॒भि दस्युं॒ बकु᳚रेणा॒ धम᳚न्तो॒रु ज्योति᳚श्चक्रथु॒रार्या᳚य ॥
▶ पदपाठः (Word-by-word)
यव᳚म् । वृके᳚ण । अ॒श्वि॒न॒ । वप᳚न्ता । इष᳚म् । दु॒हन्ता᳚ । मनु᳚षाय । द॒स्रा॒ ।
अ॒भि । दस्यु᳚म् । बकु᳚रेण । धम᳚न्ता । उ॒रु । ज्योतिः᳚ । च॒क्र॒थुः॒ । आर्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

अर्याय विदुषे । मनुषशब्दो मनुशब्दपर्यायः । मनुषाय मनवे मनोरर्थं हे दस्रा दर्शनीयावश्विनौ वृकेण लांगलेन कर्षकैः कृष्टदेशे यवं यवाद्युपलक्षितं सर्वं धान्यजातं वपंता वापयंतौ तथेषम् । अन्ननामैतत् । तत्कारणभूतं वृष्ट्युदकं च दुहंता मेघात्क्षारयंतौ तथा दस्युमुपक्षयकारिणमसुरपिशाचादिकं बकुरेण । बकुरो भासमानो वज्रः । तेनाभि धमंता । धमतिर्वधकर्मा । अभिघ्नंतौ एवं त्रिविधं कर्म कुर्वंतौ युवामुरु विस्तीर्णं ज्योतिः स्वकीयं तेजो माहात्म्यं चक्रथुः । कृतवंतौ दर्शितवंतावित्यर्थः । यद्वा । त्रिविधकर्माचरणेनार्याय विदुषे मनवे विस्तीर्ण सूर्याख्यं ज्योतिश्चक्रथुः । कृतवंतौ । जीवन् हि सूर्यं पश्यति । तद्धेतुभूतानि त्रीणि कर्माणि यवाभ्यां कृतानीति भावः । अत्र निरुक्तं बकुरो भास्करो भयंकरो भासमानो द्रवतीति वा । यवमिव वृकेणाश्विनौ निवपंतौ वृको लांगलं भवति विकर्तनादित्यादिक मनुसंधेयम् । नि ६-२६ ॥ मनुषाय । मनेरौणादिक उषन्प्रत्ययः ॥ २१ ॥