श्रवणम्

1.117.9
पु॒रू वर्पां᳚स्यश्विना॒ दधा᳚ना॒ नि पे॒दव᳚ ऊहथुरा॒शुमश्व᳚म् ।
स॒ह॒स्र॒सां वा॒जिन॒मप्र᳚तीतमहि॒हनं᳚ श्रव॒स्यं१॒᳚ तरु᳚त्रम् ॥
▶ पदपाठः (Word-by-word)
पु॒रु । वर्पां᳚सि । अ॒श्वि॒ना॒ । दधा᳚ना । नि । पे॒दवे᳚ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व᳚म् ।
स॒ह॒स्र॒॑साम् । वा॒जिन᳚म् । अप्र᳚ति॑इतम् । अ॒हि॒॑हन᳚म् । श्र॒व॒स्य᳚म् । तरु᳚त्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ पुरु पुरूणि बहूनि वर्पांसि । रूपनामैतत् । आत्मीयैः कर्मभिः कृतानि रूपाणि दधाना धारयंतौ युवामाशुं शीघ्रगामिनमश्वं पेदवे पेदुनाम्ने स्तुवते न्यूहथुः । नितरां प्रापितवंतौ । दत्तवंतावित्यर्थः । कीदृशमश्वम् । सहस्रसाम् । सहस्रसंख्याकस्य धनस्य सनितारं दातारं वाजिनं बलवंतं अत एवाप्रतीतं शत्रुभिरप्रतिगतं अहिहनमहीनामागत्य हंतॄणां शत्रूणां शत्रून्वा हंतारं श्रवस्यम् । श्रवः श्रवणीयं स्तोत्रम् । तत्र भवम् । स्तुतिविषयमित्यर्थः । तरुत्रं तरितारं ॥ वर्पांसि । वृञ् वरणे । वृञ् शीङ्छ्यां रूपस्वांगयोः पुक्च । उ -४-२०० । इत्यसुन् पुगागमश्च । दधाना । दधातेर्लटः शानच् । अभ्यास्तानामादिरित्याद्युदात्तत्वम् । सहस्रसाम् । षणु दाने । जनसनखनेति विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । श्रवस्यम् । श्रवः शब्दाद्भवे छंदसीति यत् । तित्स्वरितः । तरुत्रम् । तॄ प्लवनतरणयोः । अशित्रादिभ्य इत्रोत्रौ (उ ४-१७२) इत्युत्रप्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । ग्रसितस्कभितेत्यादौ निपातनात्तृनंतात्तरुतृशब्दादमि संज्ञा पूर्वकस्य विधेरनित्यत्वाद्गुणाभावे यण् । नित्स्वरेणाद्युदात्तत्वं ॥ ९ ॥