ए॒तानि᳚ वां श्रव॒स्या᳚ सुदानू॒ ब्रह्मा᳚ङ्गू॒षं सद᳚नं॒ रोद᳚स्योः ।
यद्वां᳚ प॒ज्रासो᳚ अश्विना॒ हव᳚न्ते या॒तमि॒षा च᳚ वि॒दुषे᳚ च॒ वाज᳚म् ॥
यद्वां᳚ प॒ज्रासो᳚ अश्विना॒ हव᳚न्ते या॒तमि॒षा च᳚ वि॒दुषे᳚ च॒ वाज᳚म् ॥
पदपाठः (Word-by-word)
ए॒तानि᳚ । वा॒म् । श्र॒व॒स्या᳚ । सु॒दा॒नू॒ इति᳚ सु॑दानू । ब्रह्म᳚ । आ॒ङ्गू॒षम् । सद᳚नम् । रोद᳚स्योः ।
यत् । वा॒म् । प॒ज्रासः᳚ । अ॒श्वि॒ना॒ । हव᳚न्ते । या॒तम् । इ॒षा । च॒ । वि॒दुषे᳚ । च॒ । वाज᳚म् ॥
यत् । वा॒म् । प॒ज्रासः᳚ । अ॒श्वि॒ना॒ । हव᳚न्ते । या॒तम् । इ॒षा । च॒ । वि॒दुषे᳚ । च॒ । वाज᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे सुदानू शोभनदानावश्विनौ वां युवयोः संबंधीन्येतानि समनंतरोक्तानि वीर्याणि श्रवस्या श्रवणीयानि सर्वैर्ज्ञातव्यानि भवंति । तदर्थं रोदस्योर्द्यावाप्रथिव्यावित्येके । नि १२-१ । इति । तथा च तैत्तिरीयकम् । इमे अश्विना संवत्सरोऽग्निर्वैश्वानर इति । तयोर्युवयोः सदनं स्तोतृसमीपे निवेशनं प्रसादनहेतुभूतं वांगूषमाघोषणीयं ब्रह्म मंत्ररूपं स्तोत्रं निष्पन्नमिति शेषः । यद्यदा पज्रासोंऽगिरसां गोत्रोत्पन्ना यजमाना हे अश्विनौ वां युवां हवंते स्तुतिभिरात्मरक्षणार्थमाह्वयंति तदानीमिषा दातव्येनान्नेन सहा यातम् । आगच्छतं च । विदुषे युष्मद्विषयं स्तोत्रं जानते मह्यं च वाजमन्नं बलं वा प्रयच्छतमिति शेषः ॥ यातम् । चवायोगेः प्रथमेति निघातप्रतिषेधः । विदुषे । विद ज्ञाने । विदेः शतुर्वसुः । वसो संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ १० ॥