श्रवणम्

1.117.5 समानपद
सु॒षु॒प्वांसं॒ न निरृ᳚तेरु॒पस्थे॒ सूर्यं॒ न द᳚स्रा॒ तम᳚सि क्षि॒यन्त᳚म् ।
शु॒भे रु॒क्मं न द᳚र्श॒तं निखा᳚त॒मुदू᳚पथुरश्विना॒ वन्द᳚नाय ॥
▶ पदपाठः (Word-by-word)
सु॒षु॒प्वांस᳚म् । न । निः॑ऋ᳚तेः । उ॒प॑स्थे᳚ । सूर्य᳚म् । न । द॒स्रा॒ । तम᳚सि । क्षि॒यन्त᳚म् ।
शु॒भे । रु॒क्मम् । न । द॒र्श॒तम् । नि॑खा᳚तम् । उत् । ऊ॒प॒थुः॒ । अ॒श्वि॒ना॒ । वन्द᳚नाय ॥
▶ सायणभाष्यम् (Sayana Commentary)

निर्ऋतिरिति भूनाम । निर्ऋतेः पृथिव्या उपस्थ उत्संगे सुषुप्वांसं सुप्तवंतं पुरुषमिव कूपमध्ये शयानं सूर्यं न सूर्यमिव । तमसि कूपांतर्गतांधकारे क्षियंतं निवसंतं सूर्यमिव तेजस्विनमित्यर्थः । शुभे शोभार्थं निर्मितं रुक्मं न रोचमानं सुवर्णमयाभरणमिव दर्शतं दर्शनीयं एवंगुणविशिष्टं कूपेऽसुरैर्निखातं वंदनाय वंदनमृषिं हे दस्रा दर्शनीयावश्विनौ युवामुदूपथुः । उद्धृतवंतौ ॥ सुषुप्वांसम् । ञिष्वपशये । लिटः क्वसुः । वचिस्वपीत्यादिना संप्रसारणं द्विर्वचनादि । उपस्थे । उपपूर्वात्तिष्ठतेर्घञर्थे कविधानमित्यधिकरणे कप्रत्ययः । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । वंदनाय । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थी ॥ ५ ॥