श्रवणम्

1.117.2 समानपद
यो वा᳚मश्विना॒ मन᳚सो॒ जवी᳚या॒न्रथ॒ः स्वश्वो॒ विश᳚ आ॒जिगा᳚ति ।
येन॒ गच्छ᳚थः सु॒कृतो᳚ दुरो॒णं तेन᳚ नरा व॒र्तिर॒स्मभ्यं᳚ यातम् ॥
▶ पदपाठः (Word-by-word)
यः । वा॒म् । अ॒श्वि॒ना॒ । मन᳚सः । जवी᳚यान् । रथः᳚ । सु॒॑अश्वः᳚ । विशः᳚ । आ॒॑जिगा᳚ति ।
येन᳚ । गच्छ᳚थः । सु॒॑कृतः᳚ । दु॒रो॒णम् । तेन᳚ । न॒रा॒ । व॒र्तिः । अ॒स्मभ्य᳚म् । या॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां युवयोः स्वभूतो मनसो जवीयान् मनसोऽप्यतिशयेन वेगवान् स्वश्वः शोभनाश्व एवंभूतो यो रथो विशः प्रजा आजिगाति आभिमुख्येन गच्छति । येन रथेन सुकृतः शोभनं यागं कुर्वतो यजमानस्य दुरोणं देवयजनलक्षणं गृहं गच्छथः । हे नरा नेतारावश्विनौ तेन रथेनास्मभ्यमस्माकं वर्तिर्वर्तनाधिकरणं गृहं यातम् । आगच्छतं ॥ जवीयान् । जवोऽस्यास्तीति जववान् तदस्यास्तीति मतुप् । तत आतिशायनिक ईयसुन् । विन्मतोर्लुक् । टेरिति टलोपः । जिगाति । गा स्तुतौ । जौहोत्यादिकः । गतिकर्मसु पाठादत्र गत्यर्थः । बहुलं छंदसीत्यभ्यासस्येत्वं ॥ २ ॥