यु॒वं भु॒ज्युमर्ण᳚सो॒ निः स᳚मु॒द्राद्विभि᳚रूहथुरृ॒ज्रेभि॒रश्वै᳚ः ॥
पदपाठः (Word-by-word)
यु॒वम् । भु॒ज्युम् । अर्ण᳚सः । निः । स॒मु॒द्रात् । वि॑भिः᳚ । ऊ॒ह॒थुः॒ । ऋ॒ज्रेभिः᳚ । अश्वैः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे युवाना दुःखानां यावयितारावश्विनौ युवं युवां पूर्व्येभिः । पुराणनामैतत् । पूर्वकालीनैश्चिरंतनैरेवैः स्तुत्यं प्रति गंतृभिः सोत्रैस्तुग्राय भुज्योर्जनकस्य संबंधिभिः पुनर्मन्यौ यथा भुज्योः समुद्रगमनात्पूर्वं युवां स्तोतव्यौ तथा पुनरपीदानीं स्तोतव्यावभवतम् । यदा युवां समुद्रमध्ये सेनया सह निमग्नं भुज्युं तुग्रस्य पुत्रमर्णसोऽर्णस्वतः प्रौढोदकयुक्तात्समुद्रादंबुराशेः सकाशाद्विभिर्गंतृभिर्नौभिर्ऋज्रेभिः शीघ्रगतियुक्तैरश्वैश्च निरूहथुः निर्गमय्य पितृसमीपं प्रापितवंतौ । तदानीं पुनरप्यतिशयेन स्तोतव्यौ जातावित्यर्थः । तुग्रो ह भुज्युम् । ऋ १-११६-३ । इत्यत्रोक्तमाख्यानमत्राप्यनुसंधेयं ॥ एवैः । इण् गतौ । इण् शीङ्भ्यां वन् । पुनर्मन्यौ । मन ज्ञाने । अत्र स्तुत्यर्थः । मन्यते स्तौतीति मना स्तुतिः । पचाद्यच् । छंदसि चेत्यर्हार्थे यः । युवाना । यु मिश्रणामिश्रणयोः । कनिन्युवृषीत्यादिना कनिन् । सुपां सुलुगिति विभक्तेराकारः । अर्णसः अर्णःशब्दादुत्पन्नस्य मत्वर्थीयस्य बहुलं छंदसीति बहुलग्रहणाल्पोपः । सर्वे विधयश्छंदसि विकल्प्यंत इति विभक्त्युदात्तस्य विकल्पनादभावः । ऋज्रेभिः । ऋज गतिस्थानार्जनोपार्जनेषु । ऋजेंद्रेत्यागौ रन्प्रत्ययांतो निपातितः । बहुलं छंदसीति भिस ऐसभावः ॥ १४ ॥