अजो᳚हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्ह᳚ः समु॒द्रम᳚व्य॒थिर्ज᳚ग॒न्वान् ।
निष्टमू᳚हथुः सु॒युजा॒ रथे᳚न॒ मनो᳚जवसा वृषणा स्व॒स्ति ॥
निष्टमू᳚हथुः सु॒युजा॒ रथे᳚न॒ मनो᳚जवसा वृषणा स्व॒स्ति ॥
पदपाठः (Word-by-word)
अजो᳚हवीत् । अ॒श्वि॒ना॒ । तौ॒ग्र्यः । वा॒म् । प्र॑ऊ᳚ळ्हः । स॒मु॒द्रम् । अ॒व्य॒थिः । ज॒ग॒न्वान् ।
निः । तम् । ऊ॒ह॒थुः॒ । सु॒॑युजा᳚ । रथे᳚न । मनः᳚॑जवसा । वृ॒ष॒णा॒ । स्व॒स्ति ॥
निः । तम् । ऊ॒ह॒थुः॒ । सु॒॑युजा᳚ । रथे᳚न । मनः᳚॑जवसा । वृ॒ष॒णा॒ । स्व॒स्ति ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ वां युवां तौग्र्यस्तुग्रपुत्रः प्रोळ्हः पित्रा प्रापितः समुद्रमब्धिं जगन्वान्भुज्युरुदके निमग्नोऽप्यव्यथिर्व्यथां पीडामप्राप्त एव सन्नजोहवीत् । स्तुतिभिराह्वयत् । तमाह्वातारं हे मनोजवसा मनोवद्वेगयुक्तौ वृषणा कामाभिवर्षकावश्विनौ सुयुजा सुष्म्वश्वैर्युक्तेन रथेन स्वस्ति क्षेमं यथा भवति तथा निरूहथुः । जलान्निर्गमय्य युवां पितृगृहं प्रापितवंतौ ॥ जगन्वान् । गमेर्लिटः क्वसुः । विभाषा गमहनविदविशामिति विकल्पनादिडभावः । म्वोश्चेति मकारस्य नकारः । निष्टम् । युष्मत्तत्ततक्षुःष्वंतःपादमिति मूर्धन्यः । मनोजवसा । मनसो जव इव जवो ययोस्तौ तथोक्तौ । सुपां सुलुगिति विभक्तेराकारः । पादादित्वादामंत्रितनिघाताभावे षाष्ठिकमाद्युदात्तत्वं ॥ १५ ॥