श्रवणम्

1.117.7
यु॒वं न᳚रा स्तुव॒ते कृ᳚ष्णि॒याय᳚ विष्णा॒प्वं᳚ ददथु॒र्विश्व᳚काय ।
घोषा᳚यै चित्पितृ॒षदे᳚ दुरो॒णे पतिं॒ जूर्य᳚न्त्या अश्विनावदत्तम् ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । न॒रा॒ । स्तु॒व॒ते । कृ॒ष्णि॒याय᳚ । वि॒ष्णा॒प्व᳚म् । द॒द॒थुः॒ । विश्व᳚काय ।
घोषा᳚यै । चि॒त् । पि॒तृ॒॑सदे᳚ । दु॒रो॒णे । पति᳚म् । जूर्य᳚न्त्यै । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरा नेतारावश्विनौ युवं युवां स्तुवते सोत्रं कुर्वते कृष्णियाय कृष्णाख्यस्य पुत्राय विश्वकाय विष्णाप्वं ददथुः । विष्णाप्वं नाम विनिष्टं पुत्रं दत्तवंतौ । घोषा नाम ब्रह्मवादिनी कक्षीवतो दुहिता । सा कुष्ठिनी सती कस्मैचिद्वरायादत्ता पितृगृहे निषण्णा जीर्णासीत् । साश्विनोरनुग्रहान्नष्टकुष्ठा सती पतिं लेभे । तदेतदाह । हे अश्विनौ पित्रा संबद्धे दुरोणे स्वकीयजनकगृहे कुष्ठरोगेण भर्तारमप्राप्य पितृषदे पितृसमीपे निषण्णायै जूर्यंत्यै जरां प्राप्नुवत्यै घोषायै चित् एतत्संज्ञायै ब्रह्मवादिन्या अपि रोगोपशमनेन पतिं भर्तारमदत्तम् । युवां दत्तवंतौ ॥ पितृषदे । षद्लृ विशरणादिषु । क्विप्चेति क्विप् । जूर्यंत्यै । जॄष् वयोहानौ । लटः शतृ । दिवादित्वाच्छ्यन् । बहुलं छंदसीत्युत्वम् । हलि चेति दीर्घः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वं ॥ ७ ॥