अ॒नच्छ᳚ये तु॒रगा᳚तु जी॒वमेज᳚द्ध्रु॒वं मध्य॒ आ प॒स्त्या᳚नाम् ।
जी॒वो मृ॒तस्य᳚ चरति स्व॒धाभि॒रम᳚र्त्यो॒ मर्त्ये᳚ना॒ सयो᳚निः ॥
जी॒वो मृ॒तस्य᳚ चरति स्व॒धाभि॒रम᳚र्त्यो॒ मर्त्ये᳚ना॒ सयो᳚निः ॥
पदपाठः (Word-by-word)
अ॒नत् । श॒ये॒ । तु॒र॑गा᳚तु । जी॒वम् । एज᳚त् । ध्रु॒वम् । मध्ये᳚ । आ । प॒स्त्या᳚नाम् ।
जी॒वः । मृ॒तस्य᳚ । च॒र॒ति॒ । स्व॒धाभिः᳚ । अम᳚र्त्यः । मर्त्ये᳚न । स॑यो᳚निः ॥
जी॒वः । मृ॒तस्य᳚ । च॒र॒ति॒ । स्व॒धाभिः᳚ । अम᳚र्त्यः । मर्त्ये᳚न । स॑यो᳚निः ॥
सायणभाष्यम् (Sayana Commentary)
अनेनदेहस्यासारताजीवस्यनित्यत्वंचप्रतिपाद्यते इदंशरीरंजीवावस्थायां अनत् प्राणनं कुर्वत् जीवंजीवनवत् तुरगातुस्वव्यापारायतूर्णगमनंसत् एजत् कंपमानंसत् शयेशेतेवर्तते पश्चात्प्राणाप- गमनानन्तरं उक्तविलक्षणंसत् ध्रुवमविचलितंसत् पस्त्यानां गृहाणांमध्ये अथैतेष्वाशेतेच स्थाणुव- त्तिष्ठति आकारःपूरणोवा जीवस्यवैलक्षण्यमाह—मृतस्यशरीरस्य संबन्धीजीवः मर्त्येनमरणधर्मकेन शरीरेणसयोनिः पूर्वंसमानोत्पत्तिस्थानः यद्यपिजीवस्यनजन्मास्ति तथापिवपुषस्तत्सद्भावात् तत्सं- बन्धेनोपचर्यते तदेवाह—अमर्त्यः अमरणस्वभावः जीवापेतंवावकिलेदंम्रियतेइतिश्रुतेः । उक्तस्वभा- वोजीवः स्वधाभिश्चरति पुत्रैःस्वधाकारपूर्वकदत्तैरन्नैश्चरति वर्ततइत्यर्थः ॥ ३० ॥ प्रवर्ग्येभिष्टवे अपश्यंगोपामित्येकाविनियुक्ता सूत्रितंच—अपश्यंगोपामनिपद्यमानं स्रक्वेद्रप्सस्ये- ति ।