तेषा᳚मि॒ष्टानि॒ विहि᳚तानि धाम॒शः स्था॒त्रे रे᳚जन्ते॒ विकृ᳚तानि रूप॒शः ॥
पदपाठः (Word-by-word)
तेषा᳚म् । इ॒ष्टानि᳚ । वि॑हि᳚तानि । धा॒म॒॑शः । स्था॒त्रे । रे॒ज॒न्ते॒ । वि॑कृ᳚तानि । रू॒प॒॑शः ॥
सायणभाष्यम् (Sayana Commentary)
साकंजानांएकस्मादादित्यात्सहोत्पन्नानांसप्तानामृतूनांमध्ये सप्तथं सप्तममृतुं थट्छन्दसीतिथट् एकजंएकेनोत्पन्नमाहुः कालतत्त्वविदः चैत्रादीनांद्वादशानांमासानांद्वयद्वयमेलनेनवसंताद्याःषडृतवो- भवंति अधिकमासेनैकउत्पद्यतेसप्तमर्तुः नचतदृशोमासएवनास्तीतिमन्तव्यं अस्तित्रयोदशोमासइ- त्याहुरितिश्रुतेः । तदेवोच्यते षळिद्यमाः इच्छब्दएवकारार्थः षडेवऋतवोमासद्वयरूपाः ऋषयोग- न्तारः तेच देवजाः देवादादित्याज्जाताः इत्येवमाहुः सप्तमाधारस्यत्रयोदशस्यमासस्य देवाभावः निःसूर्योधिकमासः मण्डलंतपतेरवेरित्यादिस्मृतेः । तस्मात् षडेवदेवजाः अदेवजएकः तेषामृतूनां- स्वरूपाणि इष्टानि सर्वलोकाभिमतानि धामशः तत्तत्स्थानेविहितानि पृथक्पृथक् स्थापितानि रूप- शः रूपभेदेन विकृतानि वोवोधाकृतियुक्तानि सचरूपभेदस्तैत्तिरीयैराम्नातः—सरसमहवसन्तायप्रा- यच्छद्यवंग्रीष्मायेत्यादि । स्थात्रे अधिष्ठाए तदर्थायरेजन्तेचलन्ति जगद्भ्यवहारायपुनःपुनरावर्तन्त- इत्यर्थः ॥ १५ ॥