त्रयः᳚ के॒शिन᳚ ऋतु॒था वि च᳚क्षते संवत्स॒रे व᳚पत॒ एक᳚ एषाम् ।
विश्व॒मेको᳚ अ॒भि च᳚ष्टे॒ शची᳚भि॒र्ध्राजि॒रेक᳚स्य ददृशे॒ न रू॒पम् ॥
विश्व॒मेको᳚ अ॒भि च᳚ष्टे॒ शची᳚भि॒र्ध्राजि॒रेक᳚स्य ददृशे॒ न रू॒पम् ॥
पदपाठः (Word-by-word)
त्रयः᳚ । के॒शिनः᳚ । ऋ॒तु॒॑था । वि । च॒क्ष॒ते॒ । सं॒व॒त्स॒रे । व॒प॒ते॒ । एकः᳚ । ए॒षा॒म् ।
विश्व᳚म् । एकः᳚ । अ॒भि । च॒ष्टे॒ । शची᳚भिः । ध्राजिः᳚ । एक᳚स्य । द॒दृ॒शे॒ । न । रू॒पम् ॥
विश्व᳚म् । एकः᳚ । अ॒भि । च॒ष्टे॒ । शची᳚भिः । ध्राजिः᳚ । एक᳚स्य । द॒दृ॒शे॒ । न । रू॒पम् ॥
सायणभाष्यम् (Sayana Commentary)
केशस्थानीयप्रकृष्टरश्मियुक्तास्त्रयोऽग्न्यादित्यवायवः तेच ऋतुथाऋतुकालेविचक्षते विविधलक्ष- णांभूमिं पश्यन्ति तेषांपृथक्पृथक्कार्यमाह एषांमध्येएकोऽग्निः संवत्सरेतीतेसति वपते दाहेन केश- स्थानीयौषधिवनस्पत्यादिकच्छेदनेननापितत्कार्यंकरोति एकः अन्य आदित्योविश्वंसर्वंजगत् श- चीभिः स्वकीयैःप्रकाशवृष्ट्यादिकर्मभिरभिचष्टेसर्वतः पश्यति एकस्यवायोः ध्राजिर्गतिर्दद्रुशेदृश्य- तेसर्वैः नरूपं अप्रत्यक्षत्वात्स्पर्शशब्दधृतिकंपलिंगैर्गम्यतइतिहिन्यायविदोवदन्ति अयमपिमन्त्रो- यास्केनैवंव्याख्यातः—त्रयःकेशिनऋतुथाविचक्षतेकालेकालेभिविपश्यन्ति संवत्सरेवपतएकएषा- मित्यग्निःपृथिवींदहतिसर्वमेकोभिविपश्यतिकर्मभिरादित्योगतिरेकस्यद्रुश्यतेनरूपमिति ॥ ४४ ॥ वाग् दैवतेपशौचत्वारिवागितिहविषोऽनुवाक्या चत्वारिवाक्परिमितापदानियज्ञेनवाचः पद- वीयमायन्नितिसूत्रितत्वात् ।