यस्ते॒ स्तनः᳚ शश॒यो यो म᳚यो॒भूर्येन॒ विश्वा॒ पुष्य᳚सि॒ वार्या᳚णि ।
यो र᳚त्न॒धा व᳚सु॒विद्यः सु॒दत्र॒ः सर᳚स्वति॒ तमि॒ह धात᳚वे कः ॥
यो र᳚त्न॒धा व᳚सु॒विद्यः सु॒दत्र॒ः सर᳚स्वति॒ तमि॒ह धात᳚वे कः ॥
पदपाठः (Word-by-word)
यः । ते॒ । स्तनः᳚ । श॒श॒यः । यः । म॒यः॒॑भूः । येन᳚ । विश्वा᳚ । पुष्य᳚सि । वार्या᳚णि ।
यः । र॒त्न॒॑धाः । व॒सु॒॑वित् । यः । सु॒॑दत्रः᳚ । सर᳚स्वति । तम् । इ॒ह । धात᳚वे । क॒रिति᳚ कः ॥
यः । र॒त्न॒॑धाः । व॒सु॒॑वित् । यः । सु॒॑दत्रः᳚ । सर᳚स्वति । तम् । इ॒ह । धात᳚वे । क॒रिति᳚ कः ॥
सायणभाष्यम् (Sayana Commentary)
हेसरस्वति तेतवसंबन्धीयः स्तनः स्तनवच्छिशुस्थानीयानां प्राणिनामाप्यायनकारी लौकिकवै- दिकसुशब्दरूपः स्तनः शशयः शयानः तवदेहेवर्तमानः यश्चस्तनः मयोभूः रसास्वादिनां सुखस्यभा- वयिता येनस्तनेन विश्वासर्वाणिवार्याणिवरणीयानिअभिमतरूपाणिधनानिषुष्यसि भॊक्तृभ्यः यश्च- स्तनोरत्नधाः बहुविधरमणीयरत्नानां धारयिता वसुवित् वसूनांवासयितॄणां धनानां वेत्तालब्धावेद- यितावा किञ्च यःस्तनः सुदत्रः शोभनदानः सुदत्रः कल्याणदानइतिनिरुक्तम् । अत्रासकृद्यच्छब्दश्रव- णं स्तनस्यातिप्रशस्तत्वज्ञापनार्थं हेदेवि तंतादृशंसर्वप्राण्युपकारकंसूक्तमयंस्तनं इहास्मिन्कर्मणि इ- दानींवा धातवे अस्माभिर्धातुंपातुं पानाय कः कुरु ॥ ४९ ॥ अग्निमन्थने यज्ञेनयज्ञमित्येषापरिधानीया यज्ञेनयज्ञमयजन्तदेवाइतिपरिदध्यादितिसूत्रितत्वात् ।