अ॒वः परे᳚ण पि॒तरं॒ यो अ᳚स्यानु॒वेद᳚ प॒र ए॒नाव᳚रेण ।
क॒वी॒यमा᳚न॒ः क इ॒ह प्र वो᳚चद्दे॒वं मन॒ः कुतो॒ अधि॒ प्रजा᳚तम् ॥
क॒वी॒यमा᳚न॒ः क इ॒ह प्र वो᳚चद्दे॒वं मन॒ः कुतो॒ अधि॒ प्रजा᳚तम् ॥
पदपाठः (Word-by-word)
अ॒वः । परे᳚ण । पि॒तर᳚म् । यः । अ॒स्य॒ । अ॒नु॒॑वेद᳚ । प॒रः । ए॒ना । अव᳚रेण ।
क॒वि॒॑यमा᳚नः । कः । इ॒ह । प्र । वो॒च॒त् । दे॒वम् । मनः᳚ । कुतः᳚ । अधि᳚ । प्र॑जा᳚तम् ॥
क॒वि॒॑यमा᳚नः । कः । इ॒ह । प्र । वो॒च॒त् । दे॒वम् । मनः᳚ । कुतः᳚ । अधि᳚ । प्र॑जा᳚तम् ॥
सायणभाष्यम् (Sayana Commentary)
अवः अवस्तात्स्थितं अस्यपितरंएतल्लोकपालकमग्निंपरेणादित्येनसहयोनुवेद अनुक्रमेणजानाति तथापरः परस्तात्स्थितमादित्यमस्यपितरंपालकंसोपीममेवलोकं वृष्ट्यादिनापालयति तादृशमादि- त्यं एनाअनेनावरेणाग्निनासहयोनुवेद अग्न्यादित्यौव्यतिहारेणोपास्ते यद्वा अभिभूतरजस्तमस्कौ उ- द्बुद्धसत्वौ अतएवस्वाधीनमायावेतौएकत्वेनयोऽधिगच्छति सतादृशःपुरुषः कवीयमानः कविवदा- चरन् क्रान्तदर्शित्वमात्मनः ख्यापयन् कइहास्मिँल्लोकेप्रवोचत् प्रब्रवीति किंच देवंद्योतमानंदेवविष- यमलौकिकंवामनः कुतः कस्माददृष्टविशेषादधि आधिक्येनप्रजातंउत्पन्नं उभयमपिदुर्लभमित्यर्थः ॥ १८ ॥