श्रवणम्

1.164.41
गौ॒रीर्मि᳚माय सलि॒लानि॒ तक्ष॒त्येक᳚पदी द्वि॒पदी॒ सा चतु᳚ष्पदी ।
अ॒ष्टाप᳚दी॒ नव᳚पदी बभू॒वुषी᳚ स॒हस्रा᳚क्षरा पर॒मे व्यो᳚मन् ॥
▶ पदपाठः (Word-by-word)
गौ॒रीः । मि॒मा॒य॒ । स॒लि॒लानि᳚ । तक्ष᳚ती । एक᳚॑पदी । द्वि॒॑पदी᳚ । सा । चतुः᳚॑पदी ।
अ॒ष्टा॑प᳚दी । नव᳚॑पदी । ब॒भू॒वुषी᳚ । स॒हस्र᳚॑अक्षरा । प॒र॒मे । वि॑ओ᳚मन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गौरीः गरणशीलमाध्यमिकावाक् सुलोपाभावश्छान्दसः मिमायशब्दयति किंकुर्वती सलिलानि वृष्ट्युदकानि तक्षती संपादयित्री एकपदीएकपादोपेता एकाधिष्ठानामेघेवर्तमाना गमनसाधनेनवा- युना एकपदीवा द्विपदी मेघान्तरिक्षाख्ये द्भ्यधिष्ठाना आदित्योवाद्वितीयः तथा सा चतुष्पदी पादच- तुष्टयोपेता दिक् चतुष्टयाधिष्टाना अथाष्टापदी अवान्तरदिगपेक्षयाष्टपादोपेता अष्टाधिष्ठाना नवपदी उपरिदिगपेक्षयासूर्येणवा नवदिगधिष्ठानाबभूवुषी एवंभूता भवतेश्छान्दसःक्वसुः ततोङीपिवसोःसंप्र- सारणं किमनयापरिगणनया सहस्राक्षरा अपरिमितवचनोयं अपरिमितव्याप्तियुक्ता बहुव्यापनशी- लोदकवतीत्यर्थः कुत्रेतितदुच्यते—परमेव्योमन् उदकाश्रयत्वेनोत्कृष्टेन्तरिक्षे केचिदेवमाहुः गौरीः गरणशीलाशब्दब्रह्मात्मिकावाक् मिमाय मिमतिःप्रतिष्ठार्थेधातुः प्रतिष्ठितानि घटादिद्रव्याणि तक्ष- ती तत्तद्वाचकत्वेननिष्पादयन्ती एकपदी अव्याकृतत्वेनैकप्रतिष्ठाना एकरूपावा प्रणवात्म्नाद्विपदी सुप् तिङ्भेदेन पादद्वयवती चतुष्पदी नामाख्यातोपसर्गनिपातभेदेन । अष्टापदी आमन्त्रितसहिता- ष्टविभक्तिभेदेनाष्टापदी नवपदी बभूवुषी साव्यंयैरुक्तैरष्टभिर्नवपदी अथवा सनाभिकेषूरःकण्ठादि- पुनवसुपदेषुभवन्ती पश्चाद्बहुविधाभिव्यक्तिमुपेयुषी परमेव्योमन् उत्कृष्टहृदयाकाशे मूलाधारेवास- हस्राक्षरा अनेकाकारेण व्याप्ता अनेकध्वनिप्रकाराभवतीत्यर्थः । अयंमन्त्रः आचार्येणैवंव्याख्यातः— गौरीर्मिमायसलिलानितक्षतीकुर्वत्येकपदीमध्यमेनद्विपदीमध्यमेनचादित्येनचचतुष्पदीदिग्भिरष्टा- पदीदिग्भिश्चावान्तरदिग्भिश्चनवपदीदिग्भिश्चावान्तरदिग्भिश्चादित्येनचसहस्राक्षराबहूदकापरमेव्य- वनेइति ॥ ४१ ॥