श॒क॒मयं᳚ धू॒ममा॒राद᳚पश्यं विषू॒वता᳚ प॒र ए॒नाव᳚रेण ।
उ॒क्षाणं॒ पृश्नि᳚मपचन्त वी॒रास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् ॥
उ॒क्षाणं॒ पृश्नि᳚मपचन्त वी॒रास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् ॥
पदपाठः (Word-by-word)
श॒क॒॑मय᳚म् । धू॒मम् । आ॒रात् । अ॒प॒श्य॒म् । वि॒षु॒॑वता᳚ । प॒रः । ए॒ना । अव᳚रेण ।
उ॒क्षाण᳚म् । पृश्नि᳚म् । अ॒प॒च॒न्त॒ । वी॒राः । तानि᳚ । धर्मा᳚णि । प्र॒थ॒मानि᳚ । आ॒स॒न् ॥
उ॒क्षाण᳚म् । पृश्नि᳚म् । अ॒प॒च॒न्त॒ । वी॒राः । तानि᳚ । धर्मा᳚णि । प्र॒थ॒मानि᳚ । आ॒स॒न् ॥
सायणभाष्यम् (Sayana Commentary)
श्कमयंशकृन्मयंशुष्कगोमयसंभूतंधूमंआरात् नातिदूरेअपश्यंदृष्टवानस्मि दिवाधूमस्य दूरेदृश्यमा- नत्वात् सएवदर्शनविषयतयोक्तः विषूवताव्याप्तिमताएनाअनेनअवरेणनिकृष्टेनधूमेन परः परस्तात् तत्कारणभूतमयमग्निमपश्यं अहंयजमानइत्यर्थः किञ्च उक्षाणंफलस्यसेक्तारं पृश्निंशुक्लवर्णं पाश्नुतेते- नफलमितिस्वयंप्राश्नुतइतिवापृश्निर्वल्लीरूपः सोमः तंवीराः विविधेरणकुशलाऋत्विजः अपचन्त अत्रधात्वर्थानादरेणतिङ्प्रत्ययः करोत्यर्थः सचक्रियासामान्यवचनःअत्रौचित्यादभिषवेणसंपादितव- न्तइत्यर्थः तानिनत्साधनानिधर्मान्यनुष्ठानानि प्रथमानिप्रतमानि प्रकृष्टानि फलपर्यवसानीयानि आ- सन् संपादितान्यभवन् यद्वा सोमउक्षाऽभवत्पूर्वंतंदेवाःशकृतापचन् । यज्ञार्थंतद्भवोधमोमेघआसीत्त- दुच्यते । तत्परत्वेनवामन्त्रोव्याख्येयोयंविचक्षणैः ॥ ४३ ॥