श्रवणम्

1.164.47
कृ॒ष्णं नि॒यानं॒ हर᳚यः सुप॒र्णा अ॒पो वसा᳚ना॒ दिव॒मुत्प᳚तन्ति ।
त आव᳚वृत्र॒न्त्सद᳚नादृ॒तस्यादिद्घृ॒तेन᳚ पृथि॒वी व्यु᳚द्यते ॥
▶ पदपाठः (Word-by-word)
कृ॒ष्णम् । नि॒॑यान᳚म् । हर᳚यः । सु॒॑प॒र्णाः । अ॒पः । वसा᳚नाः । दिव᳚म् । उत् । प॒त॒न्ति॒ ।
ते । आ । अ॒व॒वृ॒त्र॒न् । सद᳚नात् । ऋ॒तस्य᳚ । आत् । इत् । घृ॒तेन᳚ । पृ॒थि॒वी । वि । उ॒द्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कृष्णंकृष्णवर्णंनियानं नियमेनगच्छन्तंमेघं हरयः उदकस्यहर्तारः सुपर्णाः शोभनपतनारश्मयः अ- पोवसानाः उदकानिवासयन्तःमेघेषु अद्भिर्मेघान्पूरयन्तइत्यर्थः अन्तर्भावितण्यर्थाद्द्विकर्मकत्वं यद्वा कृष्णंनियानंनियमनंरात्रिः देवानांहिरात्रिर्दक्षिणायनं तत्प्रतितस्मिन्वर्षकालइत्यर्थः एवंकुर्वन्तोदिवं- द्युलोकंतदाश्रितमादित्यंवोद्दिश्योत्पतन्ति ऊर्ध्वंगच्छन्ति तेरश्मयऋतस्यसदनात् उदकस्यस्थानादा- दित्यमण्डलादाववृत्रन् आवर्तन्तेअर्वाञ्चआगच्छन्ति आदित् अनन्तरमेव यदार्वागागच्छन्ति तदानी- मेवघृतेनोदकेन पृथिवीव्युद्यते विविधंक्लिद्यते कृष्णंनिरयणंरात्रिरादित्यस्य हरयः सुपर्णाहरणाआ- दित्यरश्मयइत्यादिनिरुक्तंद्रष्टव्यम् ॥ ४७ ॥