भूम्या॒ असु॒रसृ᳚गा॒त्मा क्व᳚ स्वि॒त्को वि॒द्वांस॒मुप᳚ गा॒त्प्रष्टु᳚मे॒तत् ॥
पदपाठः (Word-by-word)
भूम्याः᳚ । असुः᳚ । असृ᳚क् । आ॒त्मा । क्व᳚ । स्वि॒त् । कः । वि॒द्वांस᳚म् । उप᳚ । गा॒त् । प्रष्टु᳚म् । ए॒तत् ॥
सायणभाष्यम् (Sayana Commentary)
एवंप्रपञ्चस्यकालायत्ततांप्रतिपाद्य तस्यकारणभूतस्यपरमेश्वरस्यविषयत्वमाह—कोददर्श कोद्र- ष्टुंशक्रुयात् कदा प्रथमंसृष्टेःपूर्वं अव्याकृतावस्थायामित्यर्थः किंजायमानं प्रथमभावविकारमापन्न उत्पद्यमानंप्रपञ्चमित्यर्थः दुर्ज्ञेयत्वेहेतुमाह—यद्यस्मात् अस्थन्वन्तंअस्थिमन्तंशरीरं उपलक्षणमेतत् कार्यभावमापन्नमित्यर्थः अनस्था अस्थिरहिता अशरीरा सांख्यप्रसिद्धाप्रकृतिः वेदान्तप्रसिद्धा ईश्व- रायत्तामायाबिभर्ति गर्भवदन्तर्धारयति अव्याकृतावस्थायां अनस्थोऽशरीरः परमेश्वरोबिभर्ति यदा- केवलःपरमेश्वरोमायाशबलितःसन् इदंजगन्निर्मितवान् उत्पत्तिसमयेदेहादिसहितस्यकस्यचिदभावा- त् कोददर्श तदानींमनोनित्यं आत्माचनित्यः तत्संयोगात्कश्चिदात्माजानातीतिचेत् सोपिनसंभवती- त्यतआह—भूम्याःसंबन्धिपार्थिवंस्थूलशरीरं असुःप्राणः तदुपलक्षितंसूक्ष्मशरीरं असृक् शोणितंसप्त- धातूपलक्षकं यद्यपि शरीरं पञ्चभूतात्मकं तथापिभूतद्वयप्रत्यक्षत्वात्तदपेक्षयोक्तम् आत्मा तैःसंबद्धः चेतनः क्वस्वित्कुत्रास्ते नकश्चिदस्तीत्यर्थः नन्यत्किंचनमिषदितिश्रुतेः । विद्वांसंजगत्कारणविषयज्ञा- नवन्तं अन्यं गुर्वादिकंएतत्कारणंप्रष्टुं कः शिष्यः अल्पमतिरुपगात् उपगच्छति तादृशोदेहेन्द्रियसंघा- तरूपआत्मातस्मिन्स्मयेकुत्रास्ति प्रष्टाप्रतिवक्ताचोभावपिनस्तइत्यर्थः नतुतद्द्वितीयमस्ति ततोऽन्यद्वि- भक्तंयत्पश्येदितिश्रुतेः । यद्वा प्रथमं प्रथमभाविनं जगतःकारणभूतं कोददर्श कःसाक्षात्करोति जाय- मानमस्थन्वन्तंमानुषं अनस्थिकः परमेश्वरः शरीरं अशरीरः यद्यस्माद्विभर्ति द्रष्टुरपितत्कार्यत्वादि- तिभावः शिष्टंसमानम् ॥ ४ ॥